उत्तिष्ठद्धोम
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्तिष्ठद्धोम¦ पु॰ ऊत्तिष्ठतोऽनुपविष्टस्य होमो यत्र। अनुप-विष्टकर्त्तव्यहोमे यजतिरूपे यागभेदे। तत्र कुत्रोपपिष्टेन कुत्रवा उत्तिष्ठता होमः करणीय इति विचिकित्-सायां यजतिजुहुत्योर्द्भेदप्रदर्शनेन तन्निर्णीतं कात्या॰
१ ,
२ ,
५ ,
६ ,
७ , सूत्रेषु
“यजतिजुहुतीनां कोविशेषः” सू॰
“यजतीनां यागानां जुहोतीनां होमानाञ्चको विशेषः कोभेदः इति प्रश्नः” कर्मः। तिष्ठ-द्धोमाः वषट्कारप्रदानाः याज्यापुरीयुवाक्यावन्तञ्चयजतयः” सू॰। ऊच्यन्ते इति शेषः। होम[Page1107-a+ 38] येषु ते तिष्ठद्धोमाः वषट्कारेण प्रदानं येषु ते वषट्कारप्रदानाः तथा याज्यावन्तः पुरोनुवाक्यावन्तश्च ये ते यज-तय उच्यन्ते” कर्कः।
“उपविष्टहोमाः स्वाहाकारपदा-ना जुहोतयः” सू॰।
“उपविष्टेन कर्त्रा होमोयेषु ते उप-विष्टहोमाः स्वाहाकारेण प्रदानं येषु ते जुहोतयउच्यन्ते” कर्कः तिष्ठत्पदञ्च उत्तिष्ठत्परम्
