उत्थानैकादशी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्थानैकादशी, स्त्री, (उत्थानाय हरेः प्रबोधनाय या एकादशी । अस्यां भगवान् क्षीरोदशयानो नारायणः योगनिद्रां विहाय उत्तिष्ठति ।) का- र्त्तिकशुक्लैकादशी ॥ अथ विष्णूत्थानम् । तत्र दिवसे रेवत्यन्तयुक्तायां द्वादश्याम् । रात्रौ रेव- त्यन्तपादयोगे तु दिवातृतीयभागे रेवतीयुक्त- द्वादश्याम् । द्वादश्यामृक्षाभावे एकादशीप्रभृति- पौर्णमास्यन्तान्यतमतिथौ रेवत्यन्तपादयोगे । तद- भावे केवलायां द्वादश्यां सन्ध्यायां विष्णुं संपूज्य । ओ~ “महेन्द्ररुद्रैरभिनूयमानो भवानृषिर्व्वन्दितवन्दनीयः । प्राप्ता तवेयं किल कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ॥ मेघा गता निर्म्मल एष चन्द्रः शारद्यपुष्पाणि च लोकनाथ । अहं ददानीति च पुण्यहेतो- र्जागृष्व जागृष्व च लोकनाथ” ॥ ततश्च । “उत्तिष्ठोत्तिष्ट गोविन्द त्यज निद्रां जगत्पते । त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम्” ॥ इति पठेत् । इति कृत्यतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्थानैकादशी¦ स्त्री उत्थानस्य हरेः निद्रातःप्रबोधनस्य कालःएकादशी। चान्द्रकार्त्तिकशुक्लैकादश्याम्। तत्र कालव्यवस्था--ति॰ त॰ रघुनन्दनेन दर्शिता यथा मात्स्ये
“शेते विष्णुः सदाषाढे माद्रे च परिवर्त्तते। कार्त्तिकेपरिबुध्येत शुक्लपक्षे हरेर्दिने” भविष्यनारदीययोः
“मैत्राद्यपादे स्वपितीह विष्णुर्वैष्णव्यमध्ये परिवर्त्तते च। पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन” भविष्ये
“निशि स्वापोदिवोत्थानं सन्ध्यायां परिवर्त्तनम्। अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्”। अन्यत्रस्वापादिविहितरात्र्यादीतरकाले दशमीप्रतिपदोश्च।
“कि-न्तन्मैत्राद्यपादेन? दशम्यंशेन यो दिवा। पौष्णशेषेण किन्तेन? प्रतिपद्यथयोनिशि”। दशम्यंशेन दशम्याअंशोयत्र पादे तेन। यः पतिपदि वा प्राप्तस्तेन वा किम्?। अत्र दशमीप्रतिपदोर्वजनात् तदितरैकादश्यादिपञ्च-तिथिषु मैत्रादिनक्षत्रपादविशेषलाभे द्वादशीं विनापिशयनादिरिति प्रतीयते। वचनान्तरम्
“रेवत्यन्तो यदारात्रौ द्वादश्या च स{??}। तदा विबुध्यते विष्णु-र्दिनान्ते प्राप्य रेवतीम्” दिनान्ते त्रिधाविभक्तदिनतृतीयभागे दिवोत्यानमित्यनुरोधात्। विष्णुधर्म्मोत्तरे
“विष्णुर्दिवा न स्वपिति त च रात्रौ प्रबुध्यते। द्वादश्या-मृक्षसंयोगे पादयोगो न कारणम्। अप्राप्ते द्वादशीमृक्षेउत्यानशयने हरेः। पादयोगेन कर्त्तव्ये नाहोरावं[Page1108-a+ 38] विचिन्तयेत् वराहपुराणम्।
“द्वादश्यां सन्धिसमये न-क्षत्राणामसम्भवे। आभाकासितपक्षेषु शयनावर्त्तना-दिकम्” आभाकानाम् आषाढभाद्रकार्त्तिकानाम्। ततश्चद्वादश्यां निशादौ नक्षत्रमात्रयोगात् द्वादश्यामृक्षाभावेतिथ्यन्तरे निशाद्यनादरेण पादविशेषयोगात्, तदभावेद्बादश्यां सन्ध्यायामेव शयनादिकं बोधनन्तु द्वादश्यांरात्रौ रेवत्यन्तपादयोगे दिनतृतीयभाग इति विशेषः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्थानैकादशी¦ f. (-शी) The eleventh lunation of the light half of Kartik or Agrahayana, when VISHNU rises from his sleep. E. उत्थान rising, एकादशी eleventh.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्थानैकादशी/ उत्थानै f. the eleventh day in the light or former half of the month कार्त्तिका(when विष्णुrises from his sleep).
