सामग्री पर जाएँ

उत्पत्तिक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्पत्तिक्रम¦ पु॰ उत्पत्तौ क्रमः। जगतामुत्पत्तिपरि-पाट्याम्। स च क्रमः
“ब्रह्मेति प्रकृत्य तैत्ति॰ उ॰भाष्ययोर्दर्शितो यथा। (
“तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः आका-शाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवीप्रथिव्या ओषधयः ओषधिभ्योऽन्नम् अन्नाद्रेतः रेतसःपुरुषः। स वा एष पुरुषोऽन्नरसमयः
“उष॰।
“तस्मा-दिति मूलवाक्यसूत्रितं ब्रह्म परामृश्यते। एतस्मादिति। मन्त्रवाक्येन, अनन्तरं यथा लक्षितं यद्ब्रह्मैव ब्राह्मण-वाक्येन सूत्रितम् यच्च सत्यं ज्ञानमनन्तं ब्रह्मेत्यनन्तर-मेव लक्षितम् तस्मादेतस्माद्ब्रह्मण आत्मन आत्मशब्दवाच्य-त्वात्। आत्मा हि तत्सर्वस्य
“तत् सत्यं स आत्मेति” श्रुत्यन्त-रादतो ब्रह्मात्मा। तस्मादेतस्माद्ब्रह्मण आत्मस्वरूपादाकाशःसम्भूतः समुत्पन्नः। आकाशो नाम शब्दगुणोऽवकाशकरोमूर्त्तद्रव्याणां, तम्मादाकाशात् स्वेन स्पर्शगुणेन पूर्व्वण चकारणगुणेन शब्देन द्विगुणो वायुः, सम्भूत इत्यनुवर्त्तते। वायोश्च स्वेन रूपगुणेन पूर्वाभ्याञ्च त्रिगुणोऽग्निःसम्भूतः। अग्नेः स्वेन रसगुणेन पूर्वैश्च त्रिभिश्चतुर्गुणाआपः सम्भूताः। अद्भ्यः स्वेन गन्धगुणेन पूर्वैश्चतुर्भिःपञ्चगुणा पृथिवी सम्भूता। पृथिव्या ओषधयः। ओष-धोभ्योऽन्नम्। अन्नाद्रेतोरूपेण परिणतात्पुरुषः शिरः-पाण्याद्याकृतिमान्। स वा एष पुरुषोऽन्नरसमयोऽन्नर-सविकारः। पुरुषाकृतिभावितं हि सर्वेभ्योऽङ्गेभ्यस्तेजः[Page1121-a+ 38] सम्भूतं रेतो वीजं तस्माद्यो जायते सोऽपि तथा पुरुषा-कृतिरेव स्यात् सर्वजातिषु जायमानानां जनकाकृतिनियम-दर्शनात् सर्व्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे चाविशिष्टे। कस्मात्? पुरुष एव गृह्यते प्राधान्यात्। किं पुनः प्राधान्यंकर्म्मज्ञानाधिकारः पुरुष एव हि शक्तत्वादर्थित्वाच्च अर्थीविद्वान् समर्थः कर्म्मज्ञानयोरधिक्रियते।
“पुरुषत्वे वाविस्तरात्मा स हि विज्ञानेन सम्पन्नतमो विज्ञातं वदतिविज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मत्त्येनामृत-मीक्षतीत्येवं सम्पन्नोऽथेतरेषां पशूनामशनापिपासे एवा-भिज्ञानमित्यादिश्रुत्यन्तरदर्शनात्” भा॰। एतेषाञ्च ब्रह्माधिष्ठितानामेव तत्तत्कार्य्यरूपेणाविर्भावःशा॰ सू॰ भाष्ययोर्निरूपितो यथा।
“तदभिध्यानादेव तु तल्लिङ्गात् सः” सू॰।
“किमिमानि वि-यदादीनि भूतानि स्वयमेव स्वविकारान् सृजन्त्याहोस्वित्परमेश्वर एव तेन तेनात्मनावतिष्ठमानोऽभिध्यायन् तं तंविकारं सृजतीति सन्देहे सति प्राप्तं तावत् स्वयमेव सृज-न्तीति कुतः
“आकाशाद्वायुर्वायोरग्निरित्यादि” स्वातन्त्र्यश्र-वणात्। नन्वचेतनानां स्वतन्त्राणां प्रवृत्तिः प्रतिषिद्धा, नैष-दोषः।
“तत्तेजऐक्षत ता आपऐक्षन्तेति च भूतानामपिचेतनत्वश्रवणादित्येवं प्राप्तेऽभिधीयते। स एव परमेश्वर-स्तेन तेनात्मनावतिष्टमानोभिध्यायंस्तंतं विकारं सृजतीतिकुतः? तल्लिङ्गात्। तथा हि शास्त्रम्
“यः पृथिव्यां तिष्ठन्पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरंयः पृथिवीमन्तरोयमयतीत्येवंजातीयकं, साध्यक्षामेवभूतानां प्रवृत्तिं दर्शयति। तथा
“सोऽकामयत बहु स्यांप्रजायेयेति” प्रस्तुत्य
“सच्च त्यच्चाभवत् तदात्मानं स्वयमकु-रुतेति” च तस्यैव सर्वात्मभावं दर्शयति। यत्तु ईक्षणश्रव-णमप्तेजसोः, तत् परमेश्वरावेशवशादेव द्रष्टव्यं
“नान्योतो-स्ति द्रष्टा” इतीक्षित्रन्तरप्रतिषेधात् प्रकृतत्वाच्च सत ईक्षितुः
“तदैक्षत बहु स्यां प्रजायेयेत्यत्र”।
“भूतानामुत्पत्ति-क्रमश्चिन्तितः” शा॰ भा॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्पत्तिक्रम/ उत्-पत्ति--क्रम m. the successive stages of creation( e.g. in TUp. , " from ब्रह्मन्arose ether , from ether wind , from wind fire , from fire water , from water earth , from earth plants , from plants food , from food seed , from seed man ").

"https://sa.wiktionary.org/w/index.php?title=उत्पत्तिक्रम&oldid=231226" इत्यस्माद् प्रतिप्राप्तम्