सामग्री पर जाएँ

उत्पत्तिव्युत्क्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्पत्तिव्युत्क्रम¦ पु॰ उत्पत्तितोव्युत्क्रमः। उत्पत्तिक्रमात्विपरीते क्रमे। स च शा॰ सू॰ भाष्ययोर्दर्शितः[Page1121-b+ 38] यथा
“भूतानामुत्पत्तिक्रमश्चिन्तितोऽथेदानीमप्ययक्रमश्चि-न्त्यते
“विपर्य्ययेण तु क्रमोऽतौपपद्यते च” शा॰ सू॰।
“किमनियतेन क्रमेणाप्ययः, उतोत्पत्तिक्रमेणाथ वा तद्विप-रीतेनेति?। त्रयोऽपि चोत्पत्तिस्थितिप्रलया भूतानां ब्र-ह्मायत्ताः श्रूयन्ते
“यतो वा इमानि मूतानि जायन्तेयेन जातानि जीवन्ति यत् प्रयन्त्यभिसंविशन्तीति”। तत्रानियमोऽविशेषादिति प्राप्तम्। अथ वोत्पत्ते क्रमस्यश्रुतत्वात् प्रलयस्यापि क्रमाकाङ्क्षिणः स एव क्रमःस्यादि-त्येवं प्राप्ते ततोब्रूमः विपर्य्ययेण तु प्रलयक्रमोऽत उत्-पत्तिक्रमाद्भवितुमर्हति। तथा हि लोके दृश्यते येन क्र-मेणसोपानमारूढस्ततो विपरीतेन क्रमेणावरोहतीति। अपिच दृश्यते मृदोजातं घटाद्यप्ययकाले मृद्भावमप्येति अद्भ्यश्चजातं हिमकरकादि अब्भावमप्येतीत्यतश्चोपपद्यते एतत्, यत्पृथिव्यद्भ्योजाता सती स्थितिकालव्यतिक्रान्तावपोऽपीयात्,आपश्च तेजसोजाताः सत्यस्तेजोऽपीयुः, एवं क्रमेण सूक्ष्मसूक्ष्मतरञ्चानन्तरमनन्तरं कारणमपीत्य सर्वं कार्य्यजातंपरमकारणं परमसूक्ष्मं ब्रह्माप्येतीति वेदितव्यम्। न हिस्वकारणव्यतिक्रमेण कारणकारणे कार्य्याप्ययोन्याय्यः। स्मृ-तावप्युत्त्तिक्रमविपर्य्ययेणैवाप्ययक्रमस्तत्र तत्र प्रदर्शितः।
“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते। ज्योतिःष्वापःप्रलीयन्ते ज्योतिर्वायौ प्रलीयते” इत्येवमादौ। उत्पत्तिक्र-मस्तूत्पत्तावेव श्रुतत्वान्नाप्यये भवितुमर्हति न चासावयो-ग्यत्वादप्ययेनाकाङ्क्ष्यते। न हि कार्य्ये ध्रियमाणे कार-णस्याप्ययोयुक्तः कारणाप्यये कार्य्यस्यावस्थानानुपपत्तेः। कार्य्याप्यये तु कारणस्यावस्थानं युक्तं मृदादिष्वेवं दृष्टत्वात्” भा॰। तदेतत् वेदा॰ प॰ स्पष्टमुक्तम् यथा।
“भूतानां भौतिका-नाञ्च न काग्णलयक्रमेण लयः कारणलयसमये कार्य्याणा-माश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीतक्रमेण तत्तत्कार्य्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजक-तया उपादाननाशस्याप्रयोजकत्वात् अन्यथा न्यायमतेऽपिमहाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः। तथाच पृथिव्या अप्सु, अपां तेजसि, तेजसोवायौ, वायोरा-काशे, आकाशस्य जीवाहङ्कारे, तस्य हिरण्यगर्भाहङ्गारे, तस्यचाविद्यायाभित्येवंरूपएव प्रलयः। तदुक्तम् विष्णुपुराणे
“जगत्प्रतिष्ठा देवर्षे! पृथिव्यप्सु प्रलीयते। तेजस्यापःप्रलीयन्ते तेजोवायौ प्रलीयते। वायुश्च लीयते व्योम्नितच्चाव्यक्ते प्रलीयते। अव्यक्तं पुरुषे ब्रह्मन्निष्कले सम्प्र-लीयये। पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः”। [Page1122-a+ 38]

"https://sa.wiktionary.org/w/index.php?title=उत्पत्तिव्युत्क्रम&oldid=231249" इत्यस्माद् प्रतिप्राप्तम्