उत्पलभेद्यक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्पलभेद्यक¦ पु॰ सुश्रुतोक्ते कर्ण्णबन्धाकृतिभेदे। स च पञ्चद-शविधः। तद्विमागलक्षणादि सुश्रु॰ दर्शितं यथा।
“तत्र समासेन पञ्चदशकर्ण्णबन्धनाकृतयः। तद्यथा नेमि-सन्घानक उत्पलभेद्यको वल्लूरक आसङ्गिमोगण्डकर्णआहार्य्यो निर्व्वेधिमो व्यायोजिमः कपाटसन्धिकोऽर्द्ध्वक-पाटसन्धिकः संक्षिप्तो हीनकर्ण्णो वल्लीकर्ण्णो यष्टिकर्ण्णःकाकोष्ठक इति। तेषु पृथुलायतसमोभयपालिर्नेमिसन्धा-नकः। वृत्तायतसमोभयपालिरुत्पलभेद्यकः। ह्रस्ववृत्तसमोभयपासिर्वल्लूरकः। अभ्यन्तरदीर्घैकपालिरास-[Page1122-b+ 38] ङ्गिमः। बाह्यदीर्घैकपालिर्गण्डकर्ण्णः। अपालिरुभयतोऽ-प्याहार्य्यः। पीठोपमपालिरुभयतः, क्षीणपुत्रिकाश्रितोनिर्व्वेधिमः। स्थूलाणुसमविषमपालिर्व्यायोजिमः। अभ्य-न्तरदीर्घैकपालिरितराल्पपालिः कपाटसन्धिकः। बाह्य-दीर्घैकपालिरितराल्पपालिरर्द्धकपाटसन्धिकः। तत्र देशैतेकर्ण्णबन्धविकल्पाः साध्यास्तेषां स्वनामभिरेवाकृतयः प्रायेणव्याख्याताः। संक्षिप्तादयः पञ्चासाध्यास्तत्र शुष्कशष्कु-लिरुत्सन्नपालिरितराल्पपालिः संक्षिप्तः। अनधिष्ठा-नपालिः पर्य्यन्तयोः क्षीणमांसो हीनकर्ण्णः। तनुविषमाल्पपालिर्वल्लीकर्ण्णः। ग्रथितमांसस्तब्धशिरायत सू-क्ष्मपालिर्यष्टिकर्णः। निर्मांससंक्षिप्ताग्राल्पशोणितपालिःकाकोष्ठकपालिरिति”।
“बन्धेष्वपि तु शोफदाहरागपाक-पिडकास्रावयुक्ता न सिद्धिमुपयान्ति”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्पलभेद्यक/ उत्-पल--भेद्यक m. a kind of bandage Sus3r.
