उत्पलम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्पलम्, क्ली, (उत्पलतीति । पल गतौ पचाद्यच् ।) नोलकमलम् । कुष्ठौषधिः । इति विश्वः ॥ पुष्पम् । इति मेदिनी ॥ जलजपुष्पमात्रम् । तच्च पद्मकुमु- दादि । तत्पर्य्यायः । कुवलयम् २ । इत्यमरः ॥ कुब- लम् ३ । इति जटाधरः ॥ कुवेलम् ४ । इति शब्द- रत्नावली ॥ (यथा रघौ ३ । ३६ । “नवावतारं कमलादिवोत्पलम्” ।) तस्य गुणाः । कषायत्वम् । मधुरत्वम् । शीतत्वम् । पित्तकफरक्तनाशित्वञ्च । इति राजवल्लभः ॥ जलपुष्पविशेषः । कोञि इति हिन्दी भाषा । तत्पर्य्यायः । अनुष्णम् २ रात्रि- पुष्पम् ३ जलाह्वयम् ४ हिमाब्जम् ५ निशापुष्पम् ६ । अस्य गुणाः । शीतत्वम् । स्वादुत्वम् । पित्त- रक्तार्त्तिदोषनाशित्वम् । दाहश्रमवमिभ्रान्तिकृ- मिज्वरहरत्वञ्च । इति राजनिर्घण्टः ॥ (“उत्पलानि कषायाणि पित्तरक्तहराणि च” । इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम् ॥ “तस्मादल्पान्तरगुणे विद्यात्कुवलयोत्पले” । इति सुश्रुते सूत्रस्थाने षट्चत्वारिंशत्तमोऽध्यायः ॥)
