सामग्री पर जाएँ

उत्पातः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्पातः, पुं, (उत् + पत् + घञ् ।) उत्पतति अक- स्मादायाति यः । प्राणिनां शुभाशुभसूचकमहा- भूतविकारभूकम्पादिः । इत्यमरटीकायां भरतः ॥ तत्पर्य्यायः । अजन्यम् २ उपसर्गः ३ । इत्यमरः ॥ सत्रिविधः । दिव्यः १ यथा अपर्ब्बणि चन्द्रादित्य- ग्रासादिः । आन्तरीक्ष्यः २ यथा, उल्कापात- निर्घातादिः । भौमः ३ यथा भूकम्पादिः । इति दीपिकाचण्डीटीके ॥ (उत्पातानां लक्षणादिकं ऋतौ स्वभावप्रभवात् अदोषत्वञ्चोक्तं वृहत्संहि- तायां ४६ अध्याये । यथा, -- “नरपतिदेशविनाशे केतोरुदयेऽथवा ग्रहेऽर्केन्द्वोः । उत्पातानां प्रभवः स्वर्तुभवश्चाप्यदोषाय ॥ ८२ ॥ येच न दोषान् जनयन्त्युत्पातास्तानृतुस्वभावकृतान् । ऋषिपुत्त्रकृतैः श्लोकैर्विद्यादेतैः समासोक्तैः ॥ ८३ ॥ वज्राशनिमहीकम्पसन्ध्यानिर्घातनिःस्वनाः । परिवेशरजोधूमरक्तार्कास्तमनोदयाः ॥ ८४ ॥ द्रमेभ्योऽन्नरसस्नेहबहुपुष्पफलोद्गमाः । गोपक्षिमदवृद्धिश्च शिवाय मधुमाधवे ॥ ८५ ॥ तारोल्कापातकलुषं कपिलार्केन्दुमण्डलम् । अनग्निज्वलनस्फोटधूमवेण्वनिलाहतम् ॥ ८६ ॥ रक्तपद्मारुणं सान्ध्यं नभः क्षुब्धार्णवोपमम् । सरितां चाम्बुसंशोषं दृष्ट्वा ग्रीष्मे शुभं वदेत् ॥ ८७ ॥ शक्रायुधपरीवेषविद्युच्छुष्कविरोहणम् । कम्पोद्वर्त्तनवैकृत्यं रसनं दरणं क्षितेः ॥ ८८ ॥ सरोनद्युदपानानां वृद्ध्यूर्द्ध्वतरणप्लवाः । सरणं चाद्रिगेहानां वर्षासु न भयावहम् ॥ ८९ ॥ दिव्यस्त्रीभूतगन्धर्व्वविमानाद्भुतदर्शनम् । ग्रहनक्षत्रताराणां दर्शनं च दिवाम्बरे ॥ ९० ॥ गीतवादित्रनिर्घोषा वनपर्ब्बतसानुषु । शस्यवृद्धिरपां हानिरपापाः शरदि स्मृताः ॥ ९१ ॥ शीतानिलतुषारत्वं नर्दनं मृगपक्षिणाम् । रक्षोयक्षादिसत्वानां दर्शनं वागमानुषी ॥ ९२ ॥ दिशो धूमान्धकाराश्च सनभोवनपर्ब्बताः । उच्चैः सूर्य्योदयास्तौ च हेमन्ते शोभनाः स्मृताः ॥ ९३ ॥ हिमपातानिलोत्पातविरूपाद्भुतदर्शनम् । कृष्णाञ्जननिभाकाशं तारोल्कापातपिञ्जरम् ॥ ९४ ॥ चित्रगर्भोद्भवाः स्त्रीषु गोऽजाश्वमृगपक्षिषु । पत्राङ्कुरलतानाञ्च विकाराः शिशरे शुभाः ॥ ९५ ॥ ऋतुस्वभावजा ह्येते दृष्टाः स्वत्ता शुभप्रदाः । ऋतोरन्यत्र चोत्पाता दृष्टास्ते भृशदारुणाः ॥ ९६ ॥ उन्मत्तानाञ्च या गाथाः शिशूनां भाषितञ्च यत् । स्त्रियो यच्च प्रभाषन्ते तस्य नास्ति व्यतिक्रमः ॥ ९७ ॥ पूर्ब्बं चरति देवेषु पश्चात् गच्छति मानुषान् । नचोदिता वाग्वदति सत्या ह्येषा सरस्वती ॥ ९८ ॥ उत्पातान् गणितविवर्जितोऽपि बुद्ध्वा विख्यातो भवति नरेन्द्रवल्लभश्च । एतत्तन्मुनिवचनं रहस्यमुक्तं यज्ज्ञात्वा भवति नरस्त्रिकालदर्शी” ॥ ९९ ॥ उत्पतनं । उल्लम्फः । यथा, रामायणे ५ । ६८ । २३ । “एकोत्पातेन ते लङ्कामेष्यन्ति हरिपुङ्गवाः” । उन्नतिः । वृद्धिः । यथा, हितोपदेशे । “करनिहितकन्दुकसमाः पातोत्पाता मनुष्याणां” । उत्पत्तिः । यथा, महाभारते, वनपर्ब्बणि । “बुद्धिरात्मानुगातीव उत्पातेन विधीयते । तदाश्रिता हि सा ज्ञेया बुद्धिस्तस्यैषिणी भवेत्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्पातः [utpātḥ], 1 Flying up, a spring, jump; एकोत्पातेन at one jump; एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः Rām.5.39. 4.

Rebounding, rising up (fig. also); करनिहतकन्दुक- समाः पातोत्पाता मनुष्याणाम् H.1. v. l. Upward jolt; विचलन् प्रथमोत्पाते हयानां भरतर्षभ Mb.3.168.4.

portent, any portentous or unusual phenomenon boding calamity; उत्पातेन ज्ञापिते च Vārt.. on P.I.4.44. Sk. ˚जलधरः K.111,287; Ve.1.22; सापि सुकुमारसुभगेत्युत्पातपरंपरा केयम् K. P.1; Mv.1.37.

Any public calamity (as an eclipse, earthquake &c.); a calamity (in general); अघर्मात्तु महोत्पातो भविष्यति हि सांप्रतम् Rām.5.26.32. ˚केतु K.5; ˚धूमलेखा Ketu; Māl.9.48. -Comp. -पवनः, -वातः, -वातालिः portentous or violent wind, whirlwind, a hurricane; R.15.23; Mv.1. ओषामासे मत्सरो- त्पातवातः Śi.18.35; उत्पातवाततरलीकृततारकाभम् Nāg.5.8.-प्रतीकारः provision made to counteract the evil portents; Kau. A.2.7.

"https://sa.wiktionary.org/w/index.php?title=उत्पातः&oldid=231455" इत्यस्माद् प्रतिप्राप्तम्