सामग्री पर जाएँ

उत्फुल्लः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्फुल्लः, त्रि, (उत्फलतीति । उत् + फल् + क्त । आदितश्चेतीडभावः उत्फुल्लसंफुल्लयोरुपसंख्यान- मिति निष्ठातस्य लः ।) प्रफुल्लः । विकसितः । इत्यमरः ॥ (यथा, किराते । (“उत्फुल्लकमलपरागजन्या- दुद्धूतः सरसिजसम्भवः परागः” । स्पीतः । वर्द्धितः । (यथा, विष्णुपुराणे । १ । ९ । १३ ॥ “हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता” । आनन्दादिना विस्फारितः । यथा, रामायणे ॥ “अवस्थितैः समीपस्थैस्त्रासादुत्फुल्ललोचनैः” ।) स्त्रीणां करणम् । उत्तानम् । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=उत्फुल्लः&oldid=117972" इत्यस्माद् प्रतिप्राप्तम्