उत्मः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्मः, पुं, (उनत्ति जलेन । उन्द + उन्दिगुधिकुषिभ्य- श्चेति सः । किदित्यनुवृत्तेर्न लोपः ।) प्रस्रवणम् । इत्यमरः ॥ उनै इति भाषा । यत्र स्थाने स्रुत्वा जलं गलति तत्र । इति भरतः ॥ स्वाम्यादयस्तु अविच्छेदेन स्रवज्जलं यत्र स्थाने पतति निपत्य च बहुलीभवति तत्रेत्याहुः ॥ तथा साञ्जोऽप्याह । “गिरेरुपरि निर्झरादिप्रभवजलसङ्घातः” । “अजस्रं मन्दवेगेन स्रवज्जले । इति कोक्कटः” ॥
