उत्मङ्गः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्मङ्गः, पुं, (उतम्वजते मिलति यत्र । उत् + सञ्ज + घञ् ।) क्रोडम् । इति जटाधरः ॥ (“उत्मङ्गवा मलिनवसने सौम्य निक्षिप्य वीणाम्” ॥ इति मेघदूते ८६ । तथा, विष्णुपुराणम् । १ । ११ । ५ ॥ “प्रणयेनागतं पुत्त्रम् उत्सङ्गारोहणोत्सुकम्” ॥ पर्ब्बतादीनां शिखरदेशः । सानुः ॥ यथा, रघुः । “शिलाविभङ्गैर्मृगराजशाव- स्तुङ्गं नगोत्सङ्गमिवारुरोह” ॥ ६ । ३ ॥ सौधादीनामुपरिभागः । छाद् इति भाषा ॥ “सौधोत्सङ्गप्रणयविमुखो मास्म भूरुज्जयिन्याः” । इति मेघदूते । २९ । अभ्यन्तरभागः । “वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः” । इति कुमारे । १ । १० । ऊर्द्ध्वतलः । वहिर्भागः । “दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः” । इति रघुवंशे । ४ । ७४ । सङ्गमः ॥ आलिङ्गनम् । विवाहः ॥ व्रणाधोभागः । शोष इति भाषा ॥ यथा सुश्रुते । सूत्रस्थाने । “अभ्यन्तरमुत्सङ्गं कृत्वा भूयोऽपि विकरोति” । गर्भः । यथा, महाभारते परीक्षिज्जन्मनि । १४ । ६८ । १८ । १९ ॥ “आसीन्मम मतिः कृष्ण ! पूर्णोत्सङ्गा जनार्द्दन” ! ॥)
