सामग्री पर जाएँ

उत्सर्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्सर्गः पुं, (उत् + सृज् + घञ् ।) त्यागः । दानम् । वर्ज्जनम् । (यथा, कुमारे । ७ । ३५ ॥ “श्रीलक्षणोत्सर्गविनोतवेशाः” । “तयोत्सर्गद्रुततरगतिस्तत्परं वर्त्म तीर्णः” । इति मेघदूते । २० ॥ यथा, मनुः । ११ । १९३ । “तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च” ।) सामान्यविधिः ॥ इति हेमचन्द्रः ॥ (यथा, कुमारे । २ । २७ । “अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः” ।) साग्निकर्त्तव्यक्रियाविशेषः । इति तिथ्यादितत्त्वम् । अथ वैधोत्सर्गविधिः । स्नानसन्ध्याचमनानि कृत्वा नारायणनवग्रहगुरून् संपूज्य देयद्रव्यं वामहस्तेन धृत्वा दक्षिणहस्थेन त्रिरभ्यर्च्च्य तद्द्रव्याधि- पतिदेवतां सम्प्रदानञ्च अर्च्चयित्वा संकल्प्य कुश- तिलजलत्यागपूर्ब्बकदानम् । इति स्मृतिः ॥ (अपानवायोर्व्यापारः । मलमूत्रादिवर्ज्जनम् ॥ उत्सज्यते विण्मूत्रमनेनेति व्युत्पत्त्या पाय्विन्द्रियम् । यथा, -- यथा, मनुः । १२ । १२१ । “मनसीन्द्रं दिशः श्रोत्रे क्लान्ते विष्णं बले हरम् । वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम्” ॥)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्सर्गः [utsargḥ], 1 Laying or leaving a side, abandoning, suspension; श्रीलक्षणोत्सर्गविनीतवेवाः Ku.7.45.

Pouring out, dropping down, emission; तोयोत्सर्गद्रुततरगतिः Me.19, 39; so शुक्र˚.

A gift, donation, giving away; (धनस्य) उत्सर्गेण शुध्यन्ति Ms.11.193.

Spending; अर्थ˚ Mu.3.

Loosening, letting loose; as in वृषोत्सर्गः

An oblation, libation.

Excretion, voiding by stool &c.; पुरीष˚, मलमूत्र˚.

Completion (as of study or a vow); cf. उत्सृष्टा वै वेदाः (opp. उपाकृता वै वेदाः).

A general rule or precept (opp. अपवाद a particular rule or exception); अपवादैरिवो- त्सर्गाः कृतव्यावृत्तयः परैः Ku.2.27, अपवाद इवोत्सर्गं व्यावर्तयितु- मीश्वरः R.15.7.

Offering what is promised (to gods, Brāhmaṇas &c.) with due ceremonies.

The anus; मित्रमुत्सर्गे Ms.12.121.

A heap, mass; अन्नस्य सुबहून् राजन्नुत्सर्गान्पर्वतोपमान् Mb.14.85.38.

Dedication, securing the services (of priests). उत्सर्गे तु प्रधानत्वात् etc. MS.3.7.19. (where शबर paraphrases उत्सर्ग by परिक्रय).-Comp. -समितिः carefulness in the act of excretion so that no living creature be hurt (Jaina).

"https://sa.wiktionary.org/w/index.php?title=उत्सर्गः&oldid=231852" इत्यस्माद् प्रतिप्राप्तम्