सामग्री पर जाएँ

उत्सवसङ्केत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उत्सवसङ्केत¦ पु॰ उत्सव आनन्दजनकः सङ्केतः स्त्रीपुंसयोःरत्यर्थमनुरागादाह्वानम् यस्य। अस्येयं स्त्रीत्येवं दाम्पत्य-नियमशून्ये स्त्रीपुंसयोरनुरागमात्रहेतुकस्वैरविहार-शालिनि पार्वतीये जातिभेदे। भा॰ स॰ अर्ज्जुनस्यो-त्तरदिग्विजये
“पौरवं युधि निर्ज्जित्य दस्यून् पर्व्वत-बासिनः। गणानुत्सवसङ्केता नजयत् सप्त पाण्डवः,[Page1130-b+ 38]

२६ अ॰ अत्र नीलक॰ दर्शितरीत्यैव व्याख्या। तद्धर्मकेप्रतीचीस्थेऽपि जातिभेदे
“गणानुत्सवसङ्केतान् व्यजयत्पुरुषर्षभः” नकुलस्य प्रतीचीविजये

३१ अ॰
“शरैरुत्-सवसङ्केतान् स कृत्वा विरुतोत्सवान्” रघुः।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

UTSAVASAṄKETA : A place in the South Bhārata. (Mahābhārata, Bhīṣma Parva, Chapter 9, Stanza 61).


_______________________________
*7th word in right half of page 814 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उत्सवसङ्केत&oldid=426525" इत्यस्माद् प्रतिप्राप्तम्