उत्सादनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सादनम्, क्ली, (उत् + सद् + णिच् + ल्युट् ।) समु- ल्लेखः । उद्वाहनम् । उद्वर्त्तनम् । इति मेदिनी ॥ (“उत्सादनञ्च गात्रानां स्नापनोच्छिष्टभोजने” । इति मनुः । २ । २०९ ॥ विनाशः । उन्मूलनम् ॥ “पूर्ब्बं क्षत्रबधं कृत्वा गतमन्युर्गतज्वरः । क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्” ॥ इति रामायणम् । १ । ७४ । २१ ॥ औषधलेपना- दिना व्रणस्य संशोधनम् । तथा, -- सुश्रुते । “अपामार्गोऽश्वगन्धा च तालपत्री सुवर्च्चला । उत्सादने प्रशस्यन्ते काकोल्यादिश्च यो गणः” ॥ “उत्सादनात् भवेत् स्त्रीणां विशेषात्कान्तिमद्वपुः । प्रहर्षसौभाग्यमृजालाघवादिगुणान्वितम्” ॥ इति चिकित्सितस्थाने २४ अध्याये सुश्रुतेनोक्तम् ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सादनम् [utsādanam], 1 Destroying, overturning; उत्सादनार्थं लोकानाम् Mb.; Bg.17.19.
Suspending, interrupting.
Cleaning the person with perfumes, chafing the limbs; उत्सादनं च गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् । Ms.2.29,211. अथ गन्धोत्सादने (v. l. त्सदने) वाससी । मानवगृह्यसूत्र of मेत्रायणीय शाखा and the commentator says: गन्धश्चन्दनादि । उत्सादनं उद्वर्तनं पक्वतैलादिना । उद्वर्तनोत्सादने द्वे समे । Ak. cf. also अभ्यङ्गोत्सादनं मूर्ध्नि तैलं जेन्ताकमातपं भजेत् &c. चरकसंहिता, सूत्रस्थान, chap. 6, verse 14. वात्स्यायन mentions it as one of the 64 Arts in his कामसूत्र. यशोधर says पादाभ्यां यन्मर्दनं तदुत्सादनमुच्यते ।
Healing a sore.
Going up, ascending, rising.
Elevating. raising.
Ploughing a field twice (or thoroughly).
