उत्सुकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सुकः, त्रि, (उत् उद्योगं सुवति सौति सुनोति वा । सु प्रसवैश्वर्य्ययोः । विचिसंज्ञापूर्ब्बकत्वात् गुणा- भावः । क्विपि आगमशास्त्रस्यानित्यत्वात्तुगभावो वा । ततः संज्ञायां कन् ॥ यद्वा उत् सुवति । षू प्रेरणे । मितद्र्वादित्वात् डुः । सत्स्विति क्विप् वा । कनिकेण इति ह्रस्वः ॥ उत् + सु + क्विप् + कन् ।) वाञ्छितकर्म्मोद्यतः । तत्पर्य्यायः । इष्टा- र्थोद्युक्तः २ । इत्यमरः ॥ उत्कण्ठितः । इति हेमचन्द्रः ॥ (यथा, रामायणे आदिकाण्डे । (“प्रेषयिष्यति राजा तु कुशलार्थं तवानघे । ब्राह्मणान् नित्यशः पुत्त्रि मोत्सुका भूः कदाचन” ॥ “वत्सोत्सुकापि स्तिमिता सपर्य्याम्” । इति रघुवंशे २ । २२ ॥)
