उत्सेधः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उत्सेधः, पुं, (उत् + सिध् + घञ् ।) पर्ब्बतवृक्षादीनां दैर्ध्यम् । (“कूर्म्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः” ॥ इति महाभारते गजकूर्म्मयुद्धे । २९ । ३१ ।) उच्छ्रयः । (यथा, कुमारे ५ । ८ ॥ “पयोधरोत्सेधविशीर्णसंहति” ॥ उपरिभागः । यथा, कुमारे ५ । २४ । “पयोधरोत्सेधनिपातचूर्णिताः” ।) शरीरम् । इत्यमरः ॥ संहननम् । इति हेमचन्द्रः ॥ (“सोत्सेधमुष्मार्थशिरातनुत्वम्” । इति भावप्रकाशे शोथाधिकारे ॥ “उत्सेधं संहतं शोफं तमाहुर्निचयादतः” । इति निदानस्थाने त्रयोदशाध्याये वाभटेनोक्तम् ॥)
