उदकपरीक्षा
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदकपरीक्षा, स्त्री, (उदकस्य उदकेन वा परीक्षा ।) दिव्यविशेषः । यथा । अथोदकपरीक्षा । पितामहः । “तोयस्याथ प्रवक्ष्यामि विधिं धर्म्म्यं सनातनम् । मण्डलं पुष्पधूपाभ्यां कारयेत् सुविचक्षणः ॥ शरान् संपूजयेद्भक्त्या वैणवञ्च धनुस्तथा” । तत्र प्रथमतो वरुणं पूजयेत् । यथा नारदः । “गन्धमाल्यैः सुरभिभिर्मधुक्षीरघृतादिभिः । वरुणाय प्रकुर्व्वीत पूजामादौ समाहितः” ॥ ततो धर्म्मावाहनादिसकलदेवतापूजाहोमसम- न्त्रकप्रतिज्ञापत्रशिरोनिवेशान्तं कर्म्म कुर्य्यात् । कात्यायनः । “शरांस्त्वनायसाग्रांस्तु प्रकुर्व्वीत विशुद्धये । वेणुकाष्ठमयांश्चैव क्षेप्ता च सुदृढं क्षिपेत्” ॥ पितामहः । “क्षेप्ता च क्षत्रियः कार्य्यस्तद्वृत्तिर्ब्राह्मणोऽथवा ॥ अक्रूरहृदयः शान्तः सोपवासस्तथा शुचिः ॥ इषून्न प्रक्षिपेद्धीमान् मारुते वाति वा भृशम् । विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले” ॥ * ॥ नारदः । “क्रूरं धनुः सप्तशतं मध्यमं षट्शतं मतम् । मन्दं पञ्चशतं प्रोक्तमेष ज्ञेयो धनुर्विधिः” ॥ अङ्गुलीनां सप्ताधिकं शतं यस्य धनुषः परिमाणं तत् सप्तशतम् । एवं षट्शतादिकम् ॥ * ॥ पितामहः । “मध्यमेन तु चापेन प्रक्षिपेत्तु शरत्रयम् । हस्तानान्तु शते सार्द्धे लक्ष्यं कृत्वा विचक्षणः ॥ तेषाञ्च प्रेषितानान्तु शराणां शास्त्रदर्शनात् । मध्यमस्तु शरो ग्राह्यः पुरुषेण बलीयसा ॥ शराणां पतनं ग्राह्यं सर्पणं परिवर्जयेत् । सर्पन् सर्पन् शरो याति दूराद्दूरतरं यतः” ॥ पतनं ग्राह्यमिति शरपतनस्थानपर्य्यन्तं गच्छेदि- त्यर्थः । तेन प्रसरणपक्षेऽपि पतनस्थानकशर- अन्तर्ज्जलगतं सम्यक् ततः शुद्धिं विनिर्द्दिशेत्” ॥ अत्र मज्जनसमकालगमनाभिधानात् शरमोक्ष- समकालं गमनं शूलपाण्युक्तमयुक्तम् । मज्जनसम- कालक्षिप्तं मध्यमं शरमादायेत्यपरमुक्तमपि प्रमा- णशून्यम् । ततश्च त्रिषु शरेषु मुक्तेषु एको वेग- वान् मध्यमशरपतनस्थानं गत्वा तमादाय तत्रैव तिष्ठति । अन्यस्तु पुरुषो वेगवान् शरमोक्षस्थाने तोरणमूले तिष्ठति एवं स्थितयोस्तृतीयायां कर- तालिकायां प्राड्विवाकदत्तायां शोध्यो निम- ज्जति तत्समकालमेव तोरणमूलस्थितोऽपि द्रुत- तरं मध्यमशरपतनस्थानं गच्छति शरग्राही च तस्मिन् प्राप्ते द्रुततरं तोरणमूलं प्राप्यान्तर्ज्जल- गतं यदि न पश्यति तदा शुद्धो भवतीति वर्त्तु- लार्थः ॥ * ॥ * ॥ तत्र प्रयोगः । उक्तलक्षणजला- शयनिकटे तथा तोरणं विधाय उक्तदेशे लक्ष्यं कृत्वा तोरणसमीपे सशरं धनुः संपूज्य जला- शये वरुणमावाह्य पूजयित्वा तत्तीरे धम्मादींश्च देवान् हवनान्तमिष्ट्वा दक्षिणां कृत्वा शोध्यस्य शिरसि प्रतिज्ञापत्रं बद्धा प्राड्विवाको जलमभि- मन्त्रयेत् । वक्ष्यमाणमन्त्रेण । ओ~ “तोय त्वं प्राणिनांप्राणः सृष्टेराद्यन्तु निर्म्मितम् । शुद्धेश्च कारणं प्रोक्तं द्रव्याणां देहिनां तथा ॥ अतस्त्वं दर्शयात्मानं शुभाशुभपरीक्षणे” । इति ॥ शोध्यस्तु ओ~ “सत्येन माभिरक्षस्व वरुण” इत्यनेन जलमभिमन्त्र्य गृहीतस्थूणस्य शोध्यनाभिमात्रोद- कावस्थितस्य बलीयसः प्राङ्मुखस्य पुरुषस्य समीपं जलमध्ये गच्छेत् । ततः शरेषु त्रिषु मुक्तेषु मध्यम- शरपातस्थाने मध्यमशरं गृहीत्वा जविन्येकस्मिन् पुरुषे स्थिते अन्यस्मिंश्च तोरणमूलस्थिते प्राड्विवा- केन तालत्रये दत्तेशोध्यो गृहीतस्थूणप्राङ्मुखपुरु- षस्योरू गृहीत्वा निमज्जति तत्समकालमेव तो- रणमूलस्थोऽपि मध्यमशरस्थानं द्रुतं गच्छति । ततः शरग्राही च तस्मिन् प्राप्ते द्रुतं तोरणमूलं प्राप्य जलान्तःस्थं यदि न पश्यति तदा शुद्धः । कर्णाद्यङ्गं विना शिरोमात्रदर्शनेऽपि शुद्धः । मज्जनस्थानादन्यत्रगमनेऽप्यशुद्धः । ततो दक्षिणा- दिकं दद्यात्” । इति दिव्यतत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदकपरीक्षा¦ स्त्री विवादादौ लौकिकप्रमाणालाभे कार्य्येदिव्यशपथभेदे तत्प्रकारश्च मिता॰ व्य॰।
“सत्येनमाभिरक्ष त्वं वरुणेत्यभिशाप्य कम्। नाभिदघ्नोदकस्थस्यगृहीत्वोरू जलं विशेत्” या॰ उक्तः। प्रपञ्चस्तु मिता॰व्य॰। दि॰ तत्वे च अनुसन्धेयः।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदकपरीक्षा/ उदक--परीक्षा f. " water-trial " , a kind of ordeal Comm. on Ya1jn5.
