उदक्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदक्य¦ त्रि॰ उदकमर्हति दण्डा॰ यत्।
१ जलार्हे व्रीह्यादौ।
२ तत्स्नानार्हेऽशुचौ
३ ऋतुमत्यां स्त्री। तस्याश्च स्नानदिवसपर्य्यन्तमशुद्धेः ततः शुद्ध्यर्थमुदकार्हत्वात् तथात्वम्।
“उद-क्या सूतिका वापि अन्त्यजं संस्पृशेद्यदि। त्रिखत्रेणैवशुध्येत इति शातातपोऽब्रवीत्” शु॰ त॰ वृद्धपरा॰।
“उदक्यया च संभाषां न कुर्व्वीत कदाचन” भा॰ अ॰ प॰
१०
४ अ॰।
“उदक्ययासते ये च द्विजाः केचिदन-स्नयः” भा॰ शान्ति॰
१६
५ अ॰। अथ प्रसङ्गात् प्रथम-रजोदर्शनतिथ्यादिफलतदीयधर्मभेदा उच्यन्ते ते च विधा-मपारिजाते दर्शिता यथा।
“प्रथमर्त्तौ द्वितीये वा शुभाशुभनिरीक्षणम्। कर्त्तव्यं ज्ञातिप्रिः सम्यग् धर्म्मशास्त्रबिधान-तः”। तत्र वस्त्रफलम्। वराहसंहितायाम्
“सुभगा श्वेतव-स्त्राढ्या रोगिणीरक्तवाससा। नीलाम्बरधरा नारी विधवाजायते ध्रुवम्। भोगिनी पीतवस्त्रा स्यान्नववस्त्रा पतिब्रता। दुर्भगा शीर्णवस्त्रा च सुमगा क्षौमवस्त्रिणी”। रजोवर्णफलम्। [Page1133-b+ 38]
“आलोहिते भवेद्बन्ध्या श्वेतवर्णे च पुत्रिणी। कृष्णे चविधवा नारी रजस्येतत्तुलक्षणम्” विवाहोत्तरकालभेद-फलम्
“ऊढानां वत्सरार्धेन मासे पक्षे तथा खलु। रजसोदर्शनं स्त्रीणां सर्वदैवाशुभावहम्”। अथ तिथिफलम्
“आद्यर्त्तौ विधवा नारी प्रतिपद्यावृताऽसृजा। वैधव्यदाप्रतिपदा द्वितीया पुत्रवर्द्धिनी। सौभाग्यदा तृतीयाच चतुर्थी सुखनाशिनी। पञ्चमी सुभगा चैव पष्ठीसम्पत्तिनाशिनी। सप्तमी धननाशाय, पुत्रदा सोख्यदाष्टमी। नवमी क्लेशदा स्त्रीणां दशमी च सुखप्रदा। एकादश्यर्थनाशाय द्वादशी रतिवर्द्धिनी। त्रयोदशी शुभा-ज्ञेया दुर्भगा च चतुर्दशी। पौर्णमासी त्वमावास्यादुःखरोगविवर्द्धिनी”। अथ मासफलम् तत्रैव
“चैत्रेमासिविशेषेण वैधव्यं लभते ध्रुवम्। वैशाखे बहुपुत्राढ्या ज्यैष्ठेरोगावृता भवेत्। आषाढो मृत्युदः प्रोक्तः श्रावणोधनहाभवेत्। भाद्रे तु दुर्भगा क्लीवा ह्याश्विने च तपस्विनी। कार्त्तिके निर्द्धना बाला मार्गशीर्षेबहुप्रजा। पौषे स्यात्पुंश्चली नारी माघे पुत्रसुखान्विता। फाल्गुने सर्व्वसपन्ना प्रथमर्त्तौ फलं स्मृतम्”। अथवारफलम्।
“आ-दित्ये विधवा नारी सोमे दैन्यमवाप्नुयात्। मङ्गलेह्याप्तघाताय बुधे च धनिनी भवेत्। गुरौ च भर्त्तृसुखदाकन्यापुत्रपसूर्भृगौ। पौश्चल्यकारिणी मन्दे म्रियतेभर्त्तुरग्रतः”। अन्यत्रान्यथापि
“रुग्णा पतिब्रता दुःखपुत्रिणी भोगभागिनी। पतिव्रता क्लेशभोगा सूर्य्यवारादिषुक्रमात्” अथ वेलाफलम्।
“प्रातःकाले रजः स्त्रीणांप्रथसं शोकवर्द्धनम्। सङ्गवे सुखसन्तत्यै मध्याह्ने धन-सन्ततिः। अपराह्णे धनावाप्तिः सायाह्ने मध्यमं फलम्। पूर्ब्बरात्रे सुखायालं मध्यरात्रे धनक्षयः। पररात्रेऽर्थनाशाय प्रथमर्त्तुफलं स्मृतम्”। अथ स्थानफलम्।
“गृहमध्ये सुस्वावाप्तिर्गृहद्वारे वियोगिनी। शय्यायांसुखदा भूमावनेकापत्यसन्ततिः”। द्रष्टृफलम्।
“पुर-न्ध्य्रा दृश्यते यत्तु रजः स्त्रीणां सुस्वाय तत्। विश्वस्तयातु यद्दृष्टं रजो वैधव्यदं स्मृतम्। रजः पश्यति चेत्क-न्या पुमान्वा तत्सुखं भवेत्। स्वयं दृष्टं तथा स्त्रीणामात्मघाताय कल्पते”। अथावासफलम्।
“पितुर्गृहे रजोदैन्यं विदधाति पितुः कुले। देवस्थाने पितृस्थानेधनस्थानेऽन्यवेश्मनि। मार्गे भर्त्तृवियोगे च चण्डालाढ्येमृतप्रजा”। अथ नक्षत्र फलम्।
“अश्विनी सुखदा स्त्रीणांभरणी कामबर्द्धिनी। कृत्तिका दैन्यदा ज्ञेया रोहिणी[Page1134-a+ 38] सुखदा भवेत्। मृगस्तु कामभोगाय सुखदं रुद्रदैवतम्। अदित्यृक्षं सुखं दद्याद्गुरुभं सुखवर्द्धनम्। अश्लेषा शु-भनाशाय शोकायाथ मघा मता। वैधव्यं फल्गुनीद्वन्द्वेहस्तः पुत्विवर्द्धनः चित्रा चित्रतनुं नारीं कुरुतेनात्र संशयः। स्वाती शुभाय नारीणां विशाखा सुख-नाशिनी। अनुराधार्थभोगाय ज्येष्ठा भर्तृवियोगदा। शुभहाप्यशुभं मूलं पूर्ब्बषाढार्थनाशिनी। सुखदा चोत-राषाढा श्रवणः सुखवर्द्धनः। धनिष्ठापञ्चकं स्त्रीणां प्रथ-मर्त्तौ सुखप्रदम्। तिथिरेकगुणा प्रोक्ता नक्षत्रं च चतु-र्गुणम्। बारः षष्ठगुणो ज्ञेयो मासश्चाष्टगुणः स्मृतः। वस्त्रं दशगुणंविद्याद्दर्शनं च ततोऽधिकम्। अशुभं चेद्रजःस्त्रीणां प्रथमर्त्तौ हि दृश्यते। विधान तत्र कर्त्तव्यम-रिष्टघ्नं विशेषत” इति। अथ योगादिफलम्। परि-धस्य तु पूर्ब्बार्द्धे व्यतीपाते च वैधृतौ। व्याघातशूलयो-र्विष्ट्यामशुभं प्रथमार्त्तवम्”। विष्टिर्विष्टि भद्रेत्यर्थः। अन्य-त्रापि।
“अमा संक्रान्तिविष्ट्यादौ व्यतीपाते च वैधृतौ। परिघस्य तु पूर्व्वार्द्धे षट्च गण्डातिगण्डयोः। व्याघातेनव, शूले तु नाड्यः पञ्चदशैव तु। वैधव्यमर्थहानिञ्च सु-तनाशं महत् भयम्। वैधव्यं शत्रुवृद्धिञ्च दारिद्र्यं क्षीणजीव-नम्। तेजोहानिं समायाति एषु पुष्पवती क्रमात्। अथ{??}शिफलम्।
“मेषे सव्यभिचारा स्याद्वृषभे परभोगिणी। मिथुने धनभोगाढ्या कर्कटे व्यभिचारिणी। पुष्पाढ्यासिंहराशौ तु कन्यायां श्रीमती तथा। विलक्षणा तु-लायां तु वृश्चिके तु पतिब्रता। दुश्चारिणी धनुःपूर्वेत्वपरे च पतिब्रता। मकरे मानहीना च कुम्मे निर्द्धनबन्ध्यता। मीने विलक्षणा लग्ने ग्रहसंस्था विवाह-वत्”। अथ लग्नफलम् नारसिंहीये॰।
“लग्नस्य सप्तम-स्थाने सूर्य्यो वैधव्यकारकः। पुत्रहानिकरस्त्वारो बुधःसत्पुत्रदो भवेत्। वृहस्पतिर्धनायुष्यं शुक्रः सापत्न्यका-रकः। शनैश्चरे च बन्ध्या स्याद्राहौ तु मरणं ध्रुवम्”। अथ गुरुशुक्रोदयफलम्।
“आयुः श्रीः प्रीतिरारोग्यमुदितेगुरुभार्गवे। मन्दोदये विरोधः स्यात् क्लेशः स्यात्तामसोदये। तामसो राहुः। अन्यच्च।
“संमार्जनीकाष्ठतृणाग्निशूर्पान्हस्ते दधाना कुलटा तदा स्यात्। तल्पोपयोगे तमसि-स्थिता चेद्दृष्टं रजो भाग्यवती तदा स्यात्” इत्यादि सर्वंज्योतिःशास्रतोऽवगन्तव्यम्। अथ ऋतुस्वरूपम्।
“नाभिमूले स्थितं पुष्पञ्चतुर्दलसम-न्वितम्। तास्वन् सर्वाश्च दधते गर्भसम्भवकारणम्। [Page1134-b+ 38] अधोमुखं स्थितं स्त्रीणां तद्दल मुकुलाकृति। बाल्यात्-परवय प्राप्तौ मुकुलं विकसद्भवेत्। उत्फुल्लं कुसुमं स्त्रीणांस्वभावात् प्रस्रवेद्रजः। तदा प्रभृति सर्वासां मासि मासि-ऋतुर्भवेदिति”। अथ प्रथमर्त्तौ मङ्गलाचारः प्रयो-गपारिजाते स्मृतिचन्द्रिकायाम्।
“प्रथमर्त्तौ तु पुष्पिंण्याःपतिपुत्रवती स्त्रियाः। अक्षतैरासनं कुर्य्यात्तस्मिंस्तामु-पवेशयेत्। हरिद्रागन्धपुष्पादीन् दद्यात्ताम्बूलकस्रजः। आशिषोवाचयेयुस्ताः पतिपुत्रवती भव। दापैर्नीराजनंकुर्यात्सदीपे वासयेद्गृहे। ताः सर्वाः पूजयेत्पश्चाद्गन्धपुव्या-क्षतादिभिः। लवणापूपमुद्गादि दद्यात्ताभ्यः स्वश-क्तितः”। अन्यच्चाह दक्षः।
“आर्त्तवाभिप्लुता नारी नैकावेश्मनि संविशेत्। न संसर्गं ब्रजेदद्भिःस्नात्वा पापात्-प्रमुच्यते। अञ्जनाभ्यञ्जने स्वानं प्रवासं दन्तधावनम्। न कुर्यात्सार्त्तवा नारी ग्रहाणामीक्षणं तथा। नखानांकृन्तनं रज्जुतालपत्रादिबन्धनम्”। नेत्यनुवृत्तौ सएव
“दग्धेशरावे भुञ्जीत पेयं चाञ्जलिना पिबेत्”। अथ रजस्वलास्पर्शशुद्धिविधानम् स्मृतिरत्नावल्यां दक्षः
“उदक्ये द्वेसगोत्रे वा सवर्णे वाऽथवा पुनः। तयोः स्नानं मिथःस्पर्शे पञ्चगव्यं ततः पिबेत्। सवर्णे योनिसम्बन्धे सगीत्रेच रजस्वले। मिथः संस्पृशतोऽमत्या स्नानमात्रेण शु-द्ध्यतः। मत्यैकरात्रं नाश्नीतः पञ्चगव्यं पिबेत्ततः। उदक्ययोर्यदान्योन्यमसम्बन्धः सवर्णयोः। स्पृशेदमत्यास्नात्वा च तस्मिन्नाद्यात् शुचिर्भवेत्”। तस्मिन् स्पर्श-दिने।
“मत्या तु नाद्यादाशुद्धेर्भुक्ता चेत् प्रतिवासरम्। उपोषणं तदा केचिदाहुस्तदिदनसंख्यया। उपवासे-त्पशक्ता चेत्तत्समं दानमाचरेत्। सम्भाषेतां स्पृशेतांवा ब्राह्मण्यौ च रजस्वले। आस्नानकालान्नाश्नीतो-ह्युभे मत्या मिथः क्वचित्। स्वात्वोपवासं कुर्य्यातांपञ्चगव्येन शुध्यतः। एवमभ्यसतश्चाब्दप्रायश्चितं समा-चरेत्। मत्या रजस्वलान्योन्यं वृषलीं ब्राह्मणी स्पृ-शेत्। आस्नानकालान्नाश्नीयादतिकृच्छ्रं समाचरेत्। चा-ण्डालं सार्त्तवा नारी संस्पृशेत् भोजनान्तरे। वाग्यताबहिरासीनास्नानकालादुपोषणम्। प्राजापत्यञ्चरेत् प-श्चात् पञ्चगव्यं ततः पिबेत्। विप्रान् द्वादशसंख्याकान्भोजयित्वा विशुध्यति। पुष्पिणी संस्पृशेन्मोहादशुद्धं वानरंस्त्रियम्। स्नानादर्वाङ् न मुञ्जीत भूक्त्वा कृच्छ्रं समा-चरेत्। स्पृष्ट्वोदक्या पञ्चनखान् द्विशफैकशफान् पशून्। अण्डजानि च सर्वाणि नाद्यादा स्नानवासरात्”। परा-[Page1135-a+ 38] शरः।
“रजस्वला यदा दष्टा शुना जम्बूकरासनैः। पञ्चरात्रं निराहारा पञ्चगव्येन शुद्ध्यति। उर्द्धं तु द्वि-गुणं यामे र्वक्त्रे तु त्रिगुणं तथा। चतुर्गुणं स्मृतं मूर्द्ध्निदंशेऽन्यत्राव्रता मवेदिति”। ( तस्या वैमित्तिकस्नानशुद्धिस्नानप्रकारस्तत्रैव दर्शितःयथा। तत्र वैमिचिकस्नातप्रकारस्तु स्मृव्यर्थसारे।
“स्नानेनैपित्तिके प्राप्तै रजोदर्शने पात्रान्तरिततोयेन स्नात्वाद्भिःसिक्तगात्रा साङ्गोपाङ्गं वस्त्रं संनिष्पीड्यान्यवस्त्रधारणंकृत्वा व्रतञ्चरेदिति”। अथ शुद्धिस्नानं स्मृत्यर्थसारएव।
“रजस्वला षष्टिमृत्तिकामिः शौसं कृत्वा मलं प्रक्षाल्य-दन्तधावनपूर्व्वकं संगवे स्नायात्” इति। अथ स्नाना-नन्तरमपि रजःख्यवे विशेषोऽभिधीयते। कात्यायनेन
“रजस्वला सदा नारी त्रिरात्रमशुचिर्भवेत्। प्रथमेऽहनिचाण्डाली द्वितीये ब्राह्मघातिनी। तृतीये रजकी प्रोक्ताचतुर्थेऽहनि शुद्ध्यति। मर्त्तुः शुद्धा चतुर्थेऽह्नि स्नातानारो रबस्वला। दैवे कर्मणि पित्र्ये च पञ्चमेऽ-हनि शुद्ध्यती” त्युक्त्वाभिहितम्।
“रागजं रोगजञ्चैव द्रव्यजं कालजं तथा। यद्रागरोगद्रव्योत्थं तद्रक्तं प्राह मा-र्गवः। कालजं तु रजःसंज्ञं तस्मात् तत्रैव साऽ-शुचिः”। एषां लक्षणानि।
“अर्वाक् प्रसूतेरुत्पन्नं मेदो-बध्याङ्गवासु णत्। तद्रागजमिति प्रोक्तं प्रजोद्भेद-समुद्भवम्। रोगेण यद्रशः स्त्रीणामन्वहं संप्रवर्त्तते। नाऽशुसिः स्त्री ततस्तेन यतो वैकारिकं मलम्। अन्त्र्यदि-दोषवैषम्यादसकृत्संप्रवर्त्तते। रोगजं तत्समुद्दिष्टमथद्रव्यजमुच्यते। द्रव्यजं धातुवैषम्यहेतुद्रव्योपभोगज-मिति”।
“आरभ्य चार्त्तवदिनादेकविंशतिवासरे। मासा-दूर्द्ध्वं रजोयत् स्यात्तत्कालजमुदाहृतम्। रजस्वला यदानारी पुनरेव रजस्वला। सा॰ विंशतिदिनादूर्द्ध्वत्रिरात्रमशुचिर्भवेत्”। ततः पूर्वं तु
“रजस्वला यदिस्नाता पुवरेव रजस्वला। अष्टादशदिनादर्वागशुचित्वंन विद्यते। एकोबविंशतेरर्वागेकाहं स्यात् ततोद्व्यहम्। विंशत्प्रमृत्युत्तरेषु त्रिरात्रमशुचिर्भवेदिति”। कश्य-पस्तु।
“रजस्वला सती नारी पुनरेव रजस्वला। अष्टादशाहात् प्राम्बापि अशुचिः स्यात्त्रिरात्रकम्। त्रयोदशदिवादूर्द्ध्वं रजसा युज्यते यदा। अष्टादशाहात्वाग्वाऽपि त्रिरात्रमिति निश्चयः। एकादशेत्वहोऽरात्रंत्रिरात्रं द्वादशेऽहनि। उर्द्ध्वं त्रिरात्रं विज्ञेयमिति कुण्ड-लिचोदितमित्यादि” परस्परविरुद्ववचनम्” जातिगुणवयोऽ-[Page1135-b+ 38] स्थादेशर्भदेन व्यवस्थापनीयम्”। स्नानकालोत्तरानुत्तरत्वेनव्यवस्थेति रघु॰। रजःकालाज्ञाने प्रजापतिराह
“अविज्ञातेमले सा च मलवद्वसना यदि। कृतं गेहेषु जुष्ठं स्याच्छु-द्धिस्तस्याः त्रिरात्रतः। रजः प्राप्तकालसंदेहेऽपि सएवाह।
“निःसंदेहे परिज्ञाने आर्त्तवे शुद्धिकारणम्। संदेह-मात्रे स्नानं स्यादित्युवाच प्रजापतिरिति”। अथ रात्रौरजोदर्शने विशेषः।
“अर्द्धरात्रपर्य्यन्तं पूर्व्वदिनमिव्यपरेपरदिनगणना वा त्रिमागाया रात्रेर्मागद्वयं पूर्ब्बदि-यान्तर्गतमित्यव्ये। सूर्य्येदयाबधिपूर्वदिनमित्यपरे। तदाहकाश्यपः।
“उदिते तु यदा सूर्य्ये नारीणां दृश्यते रजः। जनवं वा विपत्तिर्वा यस्याहस्तस्य शर्वरो। अर्द्धरात्रावधिःकालः सूतकादौ विधीयते। रात्रिं कुर्य्यात्त्रिभागां तुद्वो{??}गौ पूर्पगामिणौ। उत्तमोऽंशः प्रगातेन युज्य-ते मृतसूतके। रात्रावेव समुत्पन्ने मृते रजसि सूतके। पूर्व्वमेव दिनं ग्राह्यं यावन्नाम्युदितोरविरिति”। अत्रापिदेशाचारादिना व्यवस्था द्रष्टव्या। अथ रजस्वलाया ज्व-रादिरोगसंभवे शुद्धिविधानं स्मृत्यर्थसारे। रजस्वलांज्वरितां चतुर्थेऽहनि सचेलनवगाह्याचम्य दशकृत्वोद्वादशकृत्वो वान्या तां स्पृष्टाचमेदिति”। उशनापि
“ज्वरा-भिमूता था मारी रजसापि परिप्लुता। कथं तस्या भवे-च्छौचं शुद्धिः स्यात् केव कर्मणा?। चतुर्थेऽहनि संप्राप्तेस्मृशेदन्या तु तां स्त्रियम्। सा सचेलावगाह्यापः स्नात्वास्नात्वा पुनः स्पृशेत्। दशद्वादशकृत्वो वा आचामेच्च पुनःपुनः। अन्वे च वाससां त्यामस्ततः शुद्धा भवेत्तु सा। दद्या-च्छंक्त्या ततोदानं प्रुण्याहेन विशुध्यति। आतुराणां तु सर्वे-षामेवं शुद्धिर्विधीयत” इति। अथोदक्यास्पष्टानांचेतनानां सचेलं स्नानम् अचेतनपीठादीनां प्रक्षालनं, तत्रोदक्यादिस्पृष्टाचेतनस्पर्शे आचमनम्
“उदक्याऽशु-त्तिभिः स्नायात्संस्पृष्टस्तैरुपस्पशेदिति” याज्ञवल्क्यस्पर-रणात् उदक्यादिस्पृष्टचेतनस्पर्शे तु द्वितीयस्वापि स्नान-मेव यथाह मनुः
“दिवाकीर्त्तिमुदक्यां च पतितं सूति-कां तथा। शवन्तत्स्पर्शिनं चैव स्पृष्ट्वा स्नानेन शुद्ध्यति” तृतोयस्य त्वाचमनं यथाह संवर्त्तः
“तत्स्मर्शिनं स्पृशे-द्यस्तु स्नानं तस्य विधीयते। ऊर्द्ध्वमाचमनं प्रोक्तं द्र-व्याणां प्रोक्षणं तथा” एतदमतिविषयं बुद्धिपूर्वस्पर्शेतु तृतीयस्यापि स्नानमेव
“पतितचण्डालसूतिकोदक्या-शवस्पर्शितत् स्पर्श्युपस्पर्शने सचेलमुपस्पर्शनाच्छुद्धिरिति” गौ-तमस्यरणात्। चतुर्थास्याचमनं यथाह देवसः
“उप-[Page1136-a+ 38] स्पृश्याशुचिस्पृष्टं तृतीयं चापि मानवः। हस्तौ पादौच तोयेन प्रक्षाल्याचम्य शुद्ध्यति” अशुद्धस्योदक्यादिस्पर्शेतुदेवलः
“अशुद्धान् स्वयमप्येतानशुद्वस्तु यदि स्पृशेत्। स शुध्यत्युपवासेन तथा कृच्छ्रेण वा पुनः। श्वादिस्पर्शेतूपवासःकृच्छ्रस्तु श्वपचादिके” इति। अधिकमार्त्तवशब्दे
८०
८ पृष्ठे उक्तम्।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदक्य [udakya], a. [उदकमर्हति दण्डा˚ यत्]
Requiring water.
Being in water. -क्या A woman in her courses (requiring water for purification). नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः Ms.4.57;5.85. (न) भुञ्जीतोदक्यया दृष्टम् Bhāg.6.18.49.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदक्य mfn. being in water Kaus3. Pa1n2.
उदक्य mfn. wanting water (for purification)
