सामग्री पर जाएँ

उदग्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदग्रम्, त्रि, (उद्गतमग्रं यस्य ।) उच्छ्रितम् । उच्चम् । इत्यमरः ॥ (विशालम् । महत् । दीर्घम् । भीमम् । “नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः” ॥ इति माघः । २ । २१ । तथा, रघुः । २ । ५३ । “क्षतात्किल त्रायत इत्युदग्रः क्षत्त्रस्य शब्दो भुव- नेषु रूढः” । “अवन्तिनाथोऽयमुदग्रबाहुः” ॥ इति च रघुः । ६ । ३२ ॥)

"https://sa.wiktionary.org/w/index.php?title=उदग्रम्&oldid=118090" इत्यस्माद् प्रतिप्राप्तम्