सामग्री पर जाएँ

उदन्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदन्तः, पुं, (उद्गतो निर्णीतः अन्तो यस्य ।) वार्त्ता । (“कान्तोदन्तः सुहृदुपगतः सङ्गमात्किञ्चिदूनः” ॥ इति मेघदूते” १०१ । तथा, रघुः । १२ । ६६ । “श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गमोत्सुकः” साधुः । इति मेदिनी ॥ वृत्तियाजनम् । इति शब्द- रत्नावली ॥ (पाकवशात् प्राप्तान्ते, त्रि । यथा, शतपथव्राह्मणे । “शृतमसदिति तदाहुर्यर्ह्युदन्तं तर्हि जुहुयात् तद्धैनोदन्तं कुर्य्यादुप ह दहेत् यद्यदन्तं कुर्य्यादप्रजज्ञि वै रेत उपदग्धं तस्मान्नो दन्तं कुर्य्यात्” ॥)

"https://sa.wiktionary.org/w/index.php?title=उदन्तः&oldid=118126" इत्यस्माद् प्रतिप्राप्तम्