उदपानम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदपानम्, क्ली, पुं, (उदकं पीयतेऽस्मिन् । उदक + पा + अधिकरणे + ल्युट्, उदकस्य उदः ।) कूपः । इत्यमरः ॥ (“तडागान्युदपानानि वाप्यः प्रस्रवणानि च” । इति मनुः २ । ४८ । तथा, रामायणे २ । ८० । १२ ॥ “निर्जलेषु च देशेषु खनयामासुरुत्तमान् । उदपानान् बहुविधान् वेदिकापरिमण्डितान्” ॥ भावे ल्युट् । जलपानम् । यथा गीतायाम् । २ । ४६ “यावानर्थ उदपाने सर्व्वतः सप्लुतोदके” ॥)
