उदयः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदयः, पुं, (उद्यन्ति ग्रहा यस्मात् । उत् + इ + अच् ।) पूर्ब्बपर्ब्बतः । उदयाचलः । (भावे + अच् ।) समुन्नतिः । इति मेदिनी ॥ दीप्तिः । मङ्गलम् । इति शब्दरत्नावली ॥ ग्रहाणामुद्गमः । तत्र सूर्य्यस्योदयविवरणं यथा, विष्णुपुराणे २ अंशे ८ अध्यायः ॥ * ॥ “उदयास्तमने चैव सव्वकालन्तु संमुखे । दिशास्वशेषासु तथा मैत्रेय विदिशासु च ॥ १३ ॥ यैर्यत्र दृश्यते भास्वान् स तेषामुदयः स्मृतः । तिरोभावञ्च यत्रैति तत्रैवास्तमनं रवेः ॥ १४ ॥ नैवास्तमनमर्कस्य नोदयः सर्व्वदा सतः । उदयास्तमनाख्यञ्च दर्शनादर्शनं रवेः ॥ १५ ॥ शक्रादीनां पुरे तिष्ठन् स्पशत्थेष पुरत्रयम् । विकर्णौ द्वौ विकर्णस्थस्त्रीन्कोणान् द्वेपुरे तथा ॥ १६ ॥ उदितो वर्द्धमानाभिरामध्याह्नात्तपन् रविः । ततः परं ह्रसन्तीभिर्गोभिरस्तं निगच्छति ॥ १७ ॥ उदयास्तमनाभ्याञ्च स्मृते पूर्ब्बापरे दिशौ । तस्मान्मेरोरुत्तरस्यां दिशि सदा दिवापि अन्येषां दिनेऽपि नित्यं रात्रिरेव । अयं भावः । मेरुं प्रद- क्षिणीकुर्व्वन्तं सूर्य्यं ये यत्र पश्यन्ति सैव तेषां प्राची । तेषाञ्च वामभाग एव मेरुः । अतः सर्व्वेषां सर्व्वदा मेरुरुत्तरत एव । दक्षिणभागे च लोका- लोकाचलः । तस्मादुत्तरस्यां दिशि सदा रात्रिः । दक्षिणस्याञ्च दिशि सदा दिनमिति । यद्वा । भारतादिवर्षस्थानां सम्मुखे सूर्य्यमुद्यन्तं पश्यता- मुत्तरस्यां दिशि वामभागे मेरोरेकतः सदा दिनम् । अन्यतश्च सदा रात्रिः । दक्षिणभागे तु सदा दिनमेवेत्यर्थादुक्तं भवति” ॥ इति तट्टीकायां श्रीधरस्वामी ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदयः [udayḥ] उदयनम् [udayanam], उदयनम् See under उदि.
