उदयगामिनी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदयगामिनी¦ स्त्री उदयं सूर्य्योदयं गच्छति मुहूर्त्तादिनाव्याप्नोति गम--णिनि ङीप्।
“सूर्य्योदयावधिमुहूर्त्तादिका-लव्यापिन्यां तिथौ। कर्मानुष्ठाने उदयकाले कियन्मानस्यग्राह्यता तन्निर्ण्णीतम्” का॰ मा॰।
“व्रतोपवासनियमे-षटिकैका यदा भवेत्। उदये सा तिथि ग्राह्या विपरीतातु पैतृके” ब्र॰ पु॰।
“व्रतोपवासस्नानादौ घटिकैका यदाभवेत्। उदये सा तिथिर्ग्राह्या श्राद्धादावस्तगामिनी” विष्णु॰ ध॰ पु॰।
“आदित्योदयवेलायां याऽल्पापि च ति-थिर्भवेत्। पूर्ण्णा इत्येव सा ज्ञेया प्रभूता नोदयं विना” देवलः।
“यां तिथिं स मनुप्राप्य उदयं याति भास्करः। सा तिथिः सकला ज्ञेया स्नानदानजपादिषु” देवलः।
“उदयन्नेव सविता यां तिथिं प्रतिपद्यते। सा तिथिःसकला ज्ञेया दानाध्ययनकर्मसु” व्यासः।
“पक्षद्वयेऽपि[Page1146-b+ 38] तिथयस्तिथिं पूर्ब्धां तथोत्तराम्। त्रिभिर्मुहूर्त्तौर्वध्यन्तिसामान्योऽयं विधिः स्मृतः” पैठी॰।
“उदिते दैवतं भानौपैत्र्यं चास्तमिते रवौ। द्विमुहूर्त्तं त्रिरह्नश्च सा तिथि-र्हव्यकव्ययोः” बौधा॰।
“भानाबुदिते सत्युत्तरकालेऽ-ह्नोमुहूर्त्तद्वयं दैवत्यम्। तस्मिंश्चास्तमिते ततः पूर्वकाली-नमह्नोमुहूर्त्तत्रयं पितृदैवत्यमतस्तावत्कालव्यापिनी या ति-थिर्भवति सैव क्रमेण हव्यकव्ययोर्ग्राह्या” अत्राशङ्कापूर्वकंमाधवेन समाहितम्। नन्वस्त्वेवं कृत्स्नदिबसाभ्यनुज्ञा-तथाप्युत्तरबिद्धयास्तिथेर्ग्रहणे कियत्परिमाणमुदयेऽपेक्ष-णीयमिति विवेचनीयम्। तत्र बौधायनेन अल्पापीत्यभि-धानात् निमेषमात्रं प्रतिभाति, व्यासेन उदयन्नेवेत्य-भिधानात् तथैव प्रतिभाति। भतिष्यत्पुराणे तु षटिका-मात्रं बौधायनवचनान्तरे द्विभुहूर्त्तमित्येवं विरोधमाशङ्क्य
“अत्रोच्यते
“पौर्वाह्णिक्यस्तु तिथयस्त्रिमुहूर्त्ताः फलप्रदाः” वृ॰ या॰ वचनेन दैवे पूर्वाह्णव्याप्तायास्त्रिमुहूर्त्तमिता-यास्तिथेर्ग्रहणम्। त्रिमुहूर्त्तन्यूनायास्तिथेः पूर्वाह्णव्या-प्त्यभावात् पूर्वाह्णस्य च पञ्चधा विभक्तस्य मुख्यत्वात्उदिते भानौ त्रिमुहूर्त्तातिथिर्ग्राह्या। यत्तु
“त्रिमुहूर्त्तान कर्त्तव्या या तिथ्युदयगामिनीति” न तत् त्रिमुहूर्त्तव्या-प्तेर्बाधकं प्रत्युतोद्वोलकमेव। तथा हि प्रतिषेधः सर्वत्रप्रसक्तिपूर्व्वकः प्रसक्तिश्चात्र यथोक्तरीत्या पौर्व्वाह्णिकवाक्यात्त्रिमुहूर्त्तवेधविधायिपैठीनसिवाक्याद्वा भवति तस्य प्रसक्तंत्रिमुहूर्त्तत्वं समतिथौ बाधकाभावात्तथैव तिथिक्षये त्वधिकव्याप्तिविधित्सया प्रतिषिध्यते अतश्च तत्र चतुर्थमुहूर्त्त-स्पर्शिनी तिथिर्ग्राह्या तिथिसाम्यात्। तिथिवृद्धावपि मु-हूर्त्तत्रयमेव मुख्यं मुहूर्त्तद्वयं त्वनुकल्पः। एतदेव सूचयितुंद्विमुहूर्त्तापीत्यत्र अपिशब्दः पठ्यते”। ततः प्रासङ्गिकमन्यत्समाधाय उपसंहृतम् यथा
“प्रकृते तु सूर्य्योदये मुहू-र्त्तत्रयव्यापिनी प्रतिपद्दानव्रतयोर्ग्रहीतव्या एवं सत्यु-दयमात्रव्याप्तिशास्त्रं घटिकामात्रव्याप्तिशास्त्रं च वैश्वानरा-धिकरणन्यायेनावयुत्यानुवादरूपतया त्रिमुहूर्त्तव्याप्तिंप्रशंसति। अथवा यदा पूर्बेद्युरुदयकालं परित्यज्योपरिसर्वत्र व्याप्नोति परेद्युरुदयकालमात्रं व्याप्नोति तदा-नीमुदयानन्तरभाविन्यामुख्यायास्त्रिमुहूर्त्तव्याप्तेर्दिनद्वयेऽप्य-भावेन द्वयोरपि दिनयोर्गौणकालत्वे सति किं ग्राह्यमितिवीक्षायां पूर्व्वदिने गौणकर्मकालव्याप्नेर्भूयस्त्वात्तस्यैव ग्रह-णंन्यायतः प्राप्तं केनापि निमित्तेन तत्प्रत्यूहे सति परेद्युःकर्मकालव्याप्तिसम्प्रादनाय पूर्णत्वमभिधायोदयविहीमस्य[Page1147-a+ 38] ष्वाप्तिबाहुल्यस्य हेयत्वोक्तिव्याजेन तदेव प्रशस्यते।
“आदित्योदयवेलायां याल्पापि च तिथिर्भवेत्। पूर्णाइत्येव मन्तव्या प्रमूता नोदयं विनेति”। यदा पूर्वेद्युःसङ्गवमारभ्य परेद्युरुदयात्प्रागेव तिथिक्षयवशात्प्रतिपत्स-माप्ता तदा यद्यपि दिनद्वये सोदयमुहूर्त्तत्रयस्पर्शो नास्तितथापि पूर्वेद्युरेवानुष्ठेयम्।
“सा तिथिः सकला ज्ञेयायस्यामस्तमितोरविः इतिवचनेन सम्पाद्यायाः सोदयत्रि-मुहूर्त्ताया व्याप्तेर्विद्यमानत्वात्। यदा न परेद्युरुदय-मुहूर्त्तव्याप्तिरस्ति तदा पूर्वेद्युरेवानुष्ठानम्।{??}यव्या-प्तेरधिकत्वात्। अतएव पद्मपुराणेऽभिहितम्।
“व्रतेस्नाने तथा नक्ते पितृकार्य्ये विशेषतः। यस्यामस्तङ्गतो-भानुः सा तिथिः पुण्यभाग्भवेदिति”। तत्रैवद्वितीयाप्रकरणे च दैवं षड्विधम् उपवासैकभक्तनक्तायाचितदानव्रतभेदेन, तीर्थस्नानजपहोमादयस्तु व्रतशब्दे-नैव संगृहीताः। पित्र्यं द्विविधम् एकोद्दिष्टं पार्वणंचेति। तत्र सर्व्वत्र कर्म्मकालव्याप्तिर्मुख्या। अव-शिष्टा गौणः। तिथिव्याप्तिश्च द्विविधा स्वाभाविकतिथिव्याप्तिः साकल्यापादिततिथिव्याप्तिश्चेति। तद्यथायदा सङ्गवपर्य्यन्तामावास्या तदानीमुपरि{??}मध्याह्नोमुख्ययैव प्रतिपदा व्याप्तो भवति। यदा मध्याह्नादिमारभ्यतिथिक्षयवशात् परेद्युः सङ्गवान्ता प्रतिपद्भवति तदापूर्व्वेद्युर्गौणकालव्याप्तिमुपजोव्यैकमक्तानुष्ठानाय तत्स्वीकारेसति मध्याह्नेऽवश्यानुष्ठेयत्वात् तत्र च स्वाभाविकप्रति-पद्व्याप्त्यभावेऽपि साकल्यवचनापादितप्रतिपद्व्याप्तिःस्वीकृता एवञ्च सति कर्म्मकालव्याप्तौ सर्व्वस्मृतीनामत्यन्तनिर्बन्धदर्शनात् कर्म्मकालव्याप्तिशास्त्रमितरेभ्यः प्रबलमिति निश्चीयते। तदनुसारेण द्वितीयाद्याअपि तिथयौपवासादौ दैवेः एकोद्दिष्टादौ पित्र्ये च कर्म्मकालव्याप्तियुक्ताः स्वीकर्त्तव्याः। उपवासस्तु सर्व्वतिथिषु नारदीयेदर्शितः।
“शुक्ला वा यदि वा कृष्णा प्रतिपत्प्रभृतीन् तिथीन्। उपोष्यैव बलिन्दत्त्वा विधिना त्वपरे दिने। ब्राह्मणान्भोजयित्वा तु सर्व्वपापैः प्रमुच्यत” इति। उपवासस्याहोरात्रः कर्म्मकालः। तस्मात्तद्व्यापिजी तिथिर्ग्राह्यातदसम्भवे खण्डतिथिरपि। तत्र का ग्राह्येति निरूप्यते। तत्र सूर्य्योदये त्रिमुहूर्त्ता ततोऽधिका वा प्रतिपद्भवति उत्तर-दिनेचास्तमयादर्वाक् त्रिमुहूर्त्ता ततोऽधिका वा तृतीया भवतिमेयमुभयविद्धा द्वितीया। तत्र वेधकतिथेरुदयेऽस्तमये वात्रिम्हूर्त्तत्वं वंधप्रयोजकं न तु ततोन्यूनत्वे। तदेव[Page1147-b+ 38] पैठिनसिवाक्येन पूर्वमुदाहृतम्। वेध्यतिथेश्च त्रिमूहूर्त्तसद्भावोऽपेक्षित इति
“द्विमुहूर्त्तं त्रिरह्णश्च” इत्यनेन सुमन्तुवचनेन दर्शितम्।
“उदयास्तमययोरेव वेध” इत्यस्यायमर्थः
“उदये सा विथिर्ग्राह्या विपरीता तु पैतृके” इत्यादिभिःकात्यायनचनैरवगन्तव्यः। एवं सति उदाहृतविषयेद्वितीया उभयवेधेऽपि उत्तरविद्धैवोपास्या युग्मादिवाक्ये-नान्वयव्यतिरेकाभ्यामुत्तरवेधस्य प्राशस्त्याभिधानात्” इति। पाद्मन्तूवासरूपदैवविषयं तदप्युक्तं तेनैव।
“यद्यप्युपो-ष्यत्वं साक्षान्नांभिहितं तथापि कर्म्मान्तरविशेषानुपा-दानादुपवासविषयत्वं परिशेष्यते तथा हि न तावत् पि-त्र्यविषयत्वं सम्भवति
“द्वितीयादिकयुग्मानां पूज्यतानियमादिषु। एकोदिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिदेशनेति” व्यासेन युग्मादिशास्त्रस्य खर्व्व{??}दिशास्त्रस्य च दैवपै-त्र्यविषयकत्वेन व्यवस्थापनात् इति”। एवञ्चोपवसे-तरदैवकर्मणि उदयगायिन्या ग्राह्यता तदपवादकंयुग्मशास्त्रम्। तत्र च पैठीनसिवचनेन त्रिमुहूर्त्ततिथेरेव वेधप्रयोजकताऽभिधानेन ततो न्यूनकालि-कतिथ्या वेधाभावात् गौडदेशीया यत् स्वर्शमात्रेणवेधं कल्पयन्ति तत्साहसमात्रम् रघुनन्दनेन कुत्रापि तथावेधानुक्तेः कालमा॰ हेमाद्रिप्रभृतिषु द्विमुहूर्तादिव्याप्तावेववेधकत्वव्यवस्थापनात्, युग्मशास्त्रस्य सामान्यशास्त्रतयावेधसामान्यप्रतिपादनेऽपि पैठीनसिना तस्य विशेषाभिधा-नात्तथैव ग्रहणस्य युक्तत्वमित्युत्पश्यामः। युग्मा-दिशास्त्रस्य बाधधकन्तु
“युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” ति॰ त॰देवी॰ पु॰
“भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः। तिथावुदयगामिन्यां सर्वास्ताः कारयेद्वुधः” दुर्गो॰ त॰ नन्दि॰पु॰
“शरत्काले महापूजा क्रियते या च वार्षिकी। साकार्य्योदयगामिन्यां न तत्र तिथियुग्मता” तत्रैव पुरा॰
“पूर्ब्बाह्णे तु सदा कार्य्याः शुक्ला मनुयुगादयः। दैवेकर्म्मणि पित्रे च कृष्णा चैवापवाह्णिके। हेमा॰ नार-दीयम्
“युगादिमन्वादिश्राद्धादिषु शुक्लपक्षे उदयव्या-पिनी तिथिर्ग्राह्या कृष्णपक्षे ऽपराह्णव्यापिनी ग्राह्यास्मृत्यर्थसारश्च दिनद्वये तु तथा लाभे परैवेति हेमाद्रिः। विधानपारिजातादयोऽप्येवम्। निर्ण्ण॰ सि॰
“सवैधृ-तिर्व्यतीपातो युगमन्वादयस्तथा। सम्मुखा उपवामेषुदानादावन्तिमा स्मृता” अनन्तभर्त्तृधृतवचने आदि-पादात् श्राद्धसंग्रह इत्याह। इदन्त्ववधेयम्।
“कर्मणो-[Page1148-a+ 38] यस्य यः कालस्तत्कालव्यापिनी तिथिः। तया कर्माणिकुर्वीत ह्रासवृद्धी न कारणम्” कर्म्मणोविहितकालव्या-पिन्या एव ग्राह्यत्वाभिधानेन यत्रतिथिक्षयवशात् उभयदिने श्रुत्युक्तत्रिधाविभक्तदिनतृतीयांशरूपपूर्व्वाह्णाव्याप्ति-स्तत्र प्रतियोगिवैयधिकरण्यघटितव्याप्तेः प्रवेशनेनमुहूर्त्तकालव्याप्तावपि पूर्व्वाह्णव्यापकतया ग्रहणमित्येवरघुनन्दनस्याशयः। तथा च
“श्रारभ्य तस्यां दशमी च याव-त्” इत्यादौ यथा पूजायान्तत्तथीनां प्रतियोगिवैयकरण्य-घटितव्यापकताप्रवेश एवमत्रापि मुहूर्त्तव्यापकतानातोन्यून-दण्डादिव्यापने ग्राह्यता। भवति च द्वित्रमुहूर्त्तव्यापिन्या-अपिमुहूर्त्तव्यापितेति सर्व्वं सुस्थम्। तेन मुहूर्त्तन्यूनतायांन ग्राह्यता द्विमुहूर्त्तादिव्याप्तिस्तु मुख्येति। एवञ्च युग्मा-दिशास्त्राविषये कृष्णप्रतिपदादौ उभयदिने पूर्व्वाह्णमुहूर्त्त-व्यापित्वेऽपि त्रिमुहूर्त्ताया एव ग्राह्यतेति विवेकः। एवमस्तगामिन्यामपि अस्तादर्वाक् त्रिमुहूर्त्तायास्तिथेः। पित्रे ग्राह्यतेत्यपि बोध्यम्।
