सामग्री पर जाएँ

उदरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदरः, पुं, (उदरं अश्रयत्वेनास्त्यस्य । अर्श आदित्वा दच् ।) उदरस्थरोगविशेषः । उदरी इति भाषा । यथा । अथोदराधिकारः । तत्रोदरस्य निमित्त- माह । “रोगाः सर्व्वेऽपि मन्देऽग्नौ सुतरामुदराणि च । अजीर्णान्मलिनैश्चान्यर्जायन्ते मलसञ्चयात्” ॥ अग्नौ मन्दे सर्व्वे रोगा जायन्ते किन्तु सुतरा- मतिशयेन उदराणि जायन्ते । अपरानपि हेतू- नाह । अजीर्णान्मलिनैश्चान्यैः अत्यन्तदोषजनकैः मलसञ्चयात् मलानां दोषाणां पुरीषस्य चाति- वृद्धेः । अत्रोदरशब्देनोदरस्थो रोग उच्यते । यत आह । “तात्स्थ्यतद्धर्म्मताभ्याञ्च तत्समीपतयापि च । तत्साहचर्य्यात् शब्दानां वृत्तिरुक्ता चतुर्व्विधा” ॥ * ॥ संप्राप्तिमाह । “रुद्धाः स्वेदाम्बुवाहीनि दोषाः स्रोतांसि सञ्चिताः । प्राणाग्न्यपानान् संदुष्य जनयन्त्युदरं नृणाम् ॥ * ॥ सामान्यरूपमाह । “आध्मानं गमने ऽशक्तिर्द्दौर्ब्बल्यं दुर्ब्बलाग्निता । शोथः सदनमङ्गानां सङ्गो वातपुरीषयोः । दाहस्तन्द्रा च सर्व्वेषु जठरेषु भवन्ति हि ॥ * ॥ सन्निकृष्टनिदानपूर्ब्बिकां संख्यामाह । “पृथक्दोषैः समस्तैश्च प्लीहबद्धक्षतोदकैः । सम्भवन्त्युदराण्यष्टौ तेषां लिङ्गं पृथक् शृणु ॥ * ॥ वातोदरस्य लक्षणमाह । “तत्र वातोदरे शोथः पाणिपान्नाभिकुक्षिषु । प्रसिद्धा । परिकर्त्तो गुदे परिकर्त्तनवत् पीडा इति नारायणचूर्णम् ॥ * ॥ “स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग- सिंहीत्रिवृच्चित्रकसूर्य्यकल्कैः । घृतं विपक्वं कुडवप्रमाणं तोयेन तस्याक्षसमेन कर्षम् ॥ पीतोष्णमम्भोऽनुपिबेद्विरेके पेयं रसं वा प्रपिबेद्विधिज्ञः । नाराचमेनं जठरामयाना- मुक्तं प्रयुक्तं प्रवदन्ति सन्तः” ॥ इति नाराचघृतम् ॥ * ॥ “वज्राण्ड्याः कर्षमात्रायाः कल्कं दध्यादिवेष्टितम् । निगिलेद्वारिणा नित्यमुदरव्याधिशान्तये” ॥ वज्राण्डी शूरणपत्रो माणभेदः । वज्राण्डी इति लोके ॥ * ॥ “पुनर्नवादारुनिशासविश्वा- पटोलपथ्याः पिचुमर्द्ददारु । सनागरच्छिन्नरुहेति सर्व्वैः कृतः कषायो विधिना विधिज्ञैः ॥ गोमूत्रयुक् गुग्गुलुना च युक्तः पीतः प्रभाते नियतं नराणाम् । सर्व्वाङ्गशोथोदरपार्श्वशूल- श्वासान्वितं पाण्डुगदं निहन्ति” ॥ पुनर्नवादिक्वाथः । इत्युदराधिकारः । इति भाव- प्रकाशः ॥ (“उदरं स्तिमितं गुरु” इति वैद्यक- माधवकरधृतरुग्विनिश्चयग्रन्थः । अस्य शब्दस्य रोगविशेषवाच्यत्वेऽन्याविशेषवाच्यविवृत्तिरुदररो- गशब्दे ज्ञातव्या ॥)

"https://sa.wiktionary.org/w/index.php?title=उदरः&oldid=118160" इत्यस्माद् प्रतिप्राप्तम्