उदरामयः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदरामयः, पुं, (उदरस्य आमयः ।) रोगविशेषः । तत्पर्य्यायः । अन्नगन्धिः २ अतिसारः ३ । इति त्रिकाण्डशेषः ॥ (अस्योपशमलक्षणं चिकित्सास्थाने नवमाध्याये वाभटेनोक्तम् । यथा, “यस्योच्चाराद्विना मूत्रं पवनो वा प्रवर्त्तते । दीप्ताग्नेर्लघुकोष्ठस्य शान्तस्तस्योदरामयः” ॥)
