उदर्च्चिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदर्च्चिः, [स] त्रि, (उद्गतं अर्च्चिः प्रभा यस्मात् ।) उत्प्रभः । इति मेदिनी । (यथा रघौ १५ । ७६ । “ऋचेवोदर्च्चिषं सूर्य्यं रामं मुनिरुपस्थितः” ॥ “प्रदक्षिणप्रक्रमणात् कृशानो- रुदर्च्चिषस्तन्मिथुनं चकाशे” । इति रघुवंशे ७ । २४ । तथा, कुमारे ३ । ७१ । “स्फुरन्नुदर्च्चिः सहसा तृतीया- दक्ष्णः कृशानुः किल सम्पपात” ॥)
उदर्च्चिः, [स्], पुं, (उदूर्द्ध्वं गतं अर्च्चिर्यस्य ।) अग्निः । इति मेदिनी ॥ “प्रक्षिप्योदर्च्चिषं कक्ष शेरते तेऽभिमारुतम्” ॥ इति माघे २ । ४२ ॥ हरिः ।) शिवः । कन्दर्पः । इति शब्दरत्नावली ॥
