उदर्दः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदर्दः, पुं, (उदर्दति पीडयतीति । उत् + अर्द्द + अच् ।) रोगविशेषः । तस्य लक्षणम् । यथा, निदाने ॥ “वरटीदष्टसंस्थानः शोथः संजायते वहिः । सकण्डूस्तोदबहुलः छर्द्दिज्वरविदाहवान् ॥ उदर्द्दमिति तं विद्याच्छीतपित्तमथापरे । वाताधिकं शीतपित्तमुदर्द्दञ्च कफाधिकम्” ॥ (अस्य चिकित्सा यथा, “अभ्यङ्गः कटुतैलेन सेकश्चोष्णाम्बुभिस्ततः । उदर्दे वमनं कार्य्यं पटोलारिष्टवारिणा” ॥ “सगुडं दीप्यकं यस्तु खादेत् पथ्यान्नभुङ्नरः । तस्य नश्यति सप्ताहादुदर्दः सर्व्वदेहजः” ॥ इति वैद्यकचक्रपाणिसंग्रहे ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदर्दः [udardḥ], [अर्द्-अर्च्] (In Medic.) Erysipelas (विसर्प).
