उदात्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदात्तम्, त्रि, (उत् + आ + दा + क्त ।) दयात्यागादि- सम्पन्नम् । इति मेदिनी ॥ हृद्यम् । दातृ । महत् । इति हेमचन्द्रः ॥ (यथा, रामायणे २ य काण्डे ।) “उदात्तदन्तानाम् कुञ्जराणाम्” । नायकभेदः । यथा साहित्यदर्पणे ३ परिच्छेदे ॥ “अविकत्थनः क्षमावान् अतिगम्भोरो महासत्त्वः । स्थेयान् निगूढमानो धीरोदात्तोदृढव्रतः कथितः” ॥)
