सामग्री पर जाएँ

उदारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदारः, त्रि, (उत्कृष्टमासमन्तात् राति । रा + आत- श्चेति कः । उदर्य्यते, ऋगतिप्रापणयोः कर्म्मणि घञ् वा ।) दाता । महान् । (यथा गीतायां ७ । १८ ॥ “उदाराः सर्व्व एवैते ज्ञानी त्वात्मैव मे मतम्” ॥ “उदारा सहान्तः मौक्षभाज एव इत्यर्थः” ॥ इति श्रीधरस्वामी ।) ऋज्वाशयः । तत्पर्य्यायः । दक्षिणः २ सरलः ३ । इत्यमरः ॥ (“क उदारः समर्थश्च त्रैलोक्यस्यापि रक्षणे” । इति रामायणे आदिकाण्डे । गभीरः । सारवान् । रम्यः । न्याय्यः । “इत्यर्ध्यपात्रानुमितव्ययस्य रघोरुदारामपि गां निशम्य” । इति रघुः ५ । १२ । असाधारणः । सरलाशयः । शिष्टः । “स तथेति विनेतुरुदारमतेः प्रतिगृह्यवचो विससर्ज मुनिम्” । इति रघुः । ८ । ९१ ॥)

"https://sa.wiktionary.org/w/index.php?title=उदारः&oldid=118244" इत्यस्माद् प्रतिप्राप्तम्