उदावर्त्त
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदावर्त्तः, पुं, (उत् + आङ् + वृत् + घञ् ।) रोग- विशेषः । तत्पर्य्यायः । गुदग्रहः २ । इति हेम- चन्द्रः ॥ मलमूत्रवायुरोधकरोगः तस्य निदानं संप्राप्तिश्च । यथा निदाने । “वातविण्मूत्रजृम्भास्रुक्षवोद्गारवमीन्द्रियम् । क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्त्तसम्भवः” ॥ (अपरञ्चास्य सनिदानसंप्राप्तिक लक्षणं यथा, -- “कषायतिक्तोषणरूक्षभोज्यैः सन्धारणाभोजनमैथुनैश्च । दोषतो भिन्नवर्च्चस्कं भुक्तञ्चाप्यनुवासयेत् । नचेच्छान्तिं प्रयात्येवमुदावर्त्तः सुदारुणः ॥ अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः । पाययेत त्रिवृत्पीलुयवानीरम्लपानकैः” ॥ “देवदार्व्वग्निकं कुष्ठं वचाम्पथ्यां पलङ्कषाम् । पौष्कराणि च मूलानि तोयस्यार्द्धाढकं पचेत् ॥ पादावशिष्टं तत्पीतमुदावर्त्तं व्यपोहति” ॥ घृतं यथा । “मूलकं शुष्कमाद्रञ्च वर्षाभूः पञ्चमूलकम् ॥ आरेवतफलञ्चाप्सु पक्त्वा तेन घृतम्पचेत् । तत्पीयमानं शमयेत् उदावर्त्तमशेषतः” ॥ * ॥ “चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् । कृनवेधनमागध्यो लवनाणाञ्च साधयेत् ॥ गवां मूत्रेण ता वर्त्तीः कारयेत्तु गुदानुगाः” । वैद्यकरसेन्द्रसारसङ्ग्रहे यच्चिकित्सितं तद्यथा ॥ “त्रिकटुपारदं पथ्याकालकफलं द्विगुणं । थानकुलीनां स्वरसैर्गुडिका कार्य्याम्लरोल्यास्तु ॥ प्रबलजलोदरगुल्मज्वरपाण्डामयनाशिनी । प्रोक्ता तिमिराणिपटलविद्रधिप्रबलोदावर्त्तहरी ॥ क्रिमिकोष्ठगात्रकण्डूपिडकाश्च निहन्ति शूलचयं । शुद्धगुडिका कथिता भुवने श्रीवैद्यनाथाख्या” ॥ इति वैद्यनाथवटिका ॥ * ॥ अत्र अपथ्यानि यथा । “वमनं वेगरोधञ्च शमीधान्यानि कोद्रवम् । नालीतशाकं शालूकं जाम्बवं कर्कटीफलम् ॥ पिण्याकमालुकं सर्व्वं करीरं पिष्टवैकृतम् । विष्टम्भीनि विरुद्धानि कषायाणि गुरूणि च ॥ उदावर्त्ती प्रयत्नेन व्रर्जयेत् सततं नरः । इति वैद्यकपथ्यापथ्यविधिः ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदावर्त्त¦ पु॰ उद् + आ + वृत--घञ्। रोगभेदे तल्लक्ष्मादि सु-श्रुते दर्शितं यथा(
“अथात उदावर्त्तप्रतिषेधमध्यायं व्याख्यास्यामः। अ-धश्चोर्द्ध्वञ्च भावानां प्रवृत्तानां स्वभावतः। न वेगान् धार-येत्प्राज्ञो वातादीनां जिजीविषुः। वातविण्मूत्रजृम्भाश्रुक्ष-वोद्गारवमीन्द्रियैः। व्याहन्यमानैरुदितैरुदावर्त्तो निरुच्यते। क्षुत्तृष्णाश्वासनिद्राणामुदावर्त्तो विधारणात्। तस्याभि-धास्ये व्यासेन लक्षणञ्च चिकित्सितम्। त्रयोदशविधश्चासौभिन्न एतैस्तु कारणैः। अपथ्यभोजनाच्चापि वक्ष्यतेच तथापरः। आध्मानशूलौ हृदयोपरोधं शिरोरुजंश्वासमतीव हिक्काम्। कासप्रतिश्यायगलग्रहांश्च बलासपित्त-प्रसरञ्च घोरम्। कुर्य्यादपानाभिहतः स्वमार्गे हन्यात्पुरीषंमुखतः क्षिपेद्वा। आटोपशूलौ परिकर्त्तनञ्च सङ्गः पुरीषस्यतथोर्द्ध्ववातः
१ । पुरीषमास्यादपि वा निरेति पुरीषवेगेऽ-भिहते
२ नरस्य। मूत्रस्य वेगेऽभिहते
३ नरस्तु कृच्छ्रेणमूत्रं कुरुतेऽल्पमल्पम्। मेढ्रे गुदे वङ्क्षणमुष्कवोश्च नाभि-प्रदेशेष्वथ वापि मूर्द्ध्नि। आनद्धवस्तिश्च भवन्ति तीव्राःशूलाश्च शूलैरिव भिन्नमूर्त्तेः। मन्यागलस्तम्भशिरोविकाराजृम्भोपघातात्
४ पवनात्मकाः स्युः। श्रोत्राननघ्राणविलो-चनोत्था भवन्ति तीव्राश्च तथा विकाराः। आनन्दजं[Page1163-b+ 38] शोकसमुद्भवं वा नेत्रोदकं
५ प्राप्तममुञ्चतो हि। शिरोगुरुत्वंनयनामयाश्च भवन्ति तीव्राः सह पीनसेन। भवन्ति गाढंक्षवयोर्व्विघातात्
६ शिरोऽक्षिनासाश्रवणेषु रोगाः। कण्ठा-स्यपूर्णत्वमतीव तोदः कूजश्च वायोरथ वा प्रवृत्तिः। उद्गारवेगेऽभिहते
७ भवन्ति जन्तोर्व्विकाराः पवनप्रसूताः। छर्देर्व्विघातेन
८ भवेच्च कुष्ठं तेनैव दोषेण विदग्धमन्नम्। मूत्राशये वा गुदमुष्कयोश्च शोफो रुजा मूत्रविनिग्रहश्च। शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तुशुक्रे
९ । तन्द्राङ्गमर्दावरुचिः श्रमश्चक्षुधोऽभिघातात्
१० कृ-शता च दृष्टेः। कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघा-तात्
११ हृदये व्यथा च। श्रान्तस्य निश्वासविनिग्रहेण
१२ हद्रोगमोहावथ वापि गुल्मः। जृम्भाङ्गमर्दो ङ्गशिरो-ऽक्षिजाड्यं निद्राभिघातादथ
१३ वापि तन्द्रा। तृष्णादितंपरिक्लिष्टं क्षीणं शूलैरभिद्रुतम्। शकृद्वमन्तं मतिमा-नुदावर्त्तिनमुत्सृजेत्। सर्वेष्वेतेषु
“विधिव{??}दावर्त्तेषुकृत्स्नशः। वायीः क्रियाविधातव्या स्वमार्गप्रति{??}त्तये”। उद्न उदकस्यावर्त्तः।
२ जलस्य स्वतोभ्रमणे।
३ स्त्रीचिह्न-रोगभेदे स्त्री सा च सुश्रुते दर्शिता यथा
“विंशतिर्व्याप-दोयोनेर्न्निर्दिष्टा रोगसङ्ग्रहे। मिथ्याचारेण ता स्त्रीणांप्रदुष्टेनार्त्तवेन च। जायन्ते वीजदोषाच्च दैवाच्च शृणु ताःपृथक्। उदावर्त्ता तथा बन्ध्या विप्लुता च परिप्लुता। वातला चेति वातोत्था पित्तोत्था रुधिरक्षरा। वामिनीस्रंसिनी चापि पुत्त्रघ्नी पित्तला च या। अत्यानन्दा चया योनिः कर्णिनी चरणाद्वयम्। श्लैष्मिका सकपा ज्ञेयाषण्डी च फलिनी तथा। महती सूचिवक्त्रा च सर्वजेतित्रिदोषजा”।
“सफेनिलमुदावर्त्ता रजः कृच्छेणमुञ्चति”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदावर्त्त¦ m. (-र्त्तः) A disease of the bowels, iliac passion. f. (-ता) Difficult menstruation. E. उद् upper, आवर्त्त abode.
