सामग्री पर जाएँ

उदावर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदावर्त्तः, पुं, (उत् + आङ् + वृत् + घञ् ।) रोग- विशेषः । तत्पर्य्यायः । गुदग्रहः २ । इति हेम- चन्द्रः ॥ मलमूत्रवायुरोधकरोगः तस्य निदानं संप्राप्तिश्च । यथा निदाने । “वातविण्मूत्रजृम्भास्रुक्षवोद्गारवमीन्द्रियम् । क्षुत्तृष्णोच्छ्वासनिद्राणां धृत्योदावर्त्तसम्भवः” ॥ (अपरञ्चास्य सनिदानसंप्राप्तिक लक्षणं यथा, -- “कषायतिक्तोषणरूक्षभोज्यैः सन्धारणाभोजनमैथुनैश्च । दोषतो भिन्नवर्च्चस्कं भुक्तञ्चाप्यनुवासयेत् । नचेच्छान्तिं प्रयात्येवमुदावर्त्तः सुदारुणः ॥ अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः । पाययेत त्रिवृत्पीलुयवानीरम्लपानकैः” ॥ “देवदार्व्वग्निकं कुष्ठं वचाम्पथ्यां पलङ्कषाम् । पौष्कराणि च मूलानि तोयस्यार्द्धाढकं पचेत् ॥ पादावशिष्टं तत्पीतमुदावर्त्तं व्यपोहति” ॥ घृतं यथा । “मूलकं शुष्कमाद्रञ्च वर्षाभूः पञ्चमूलकम् ॥ आरेवतफलञ्चाप्सु पक्त्वा तेन घृतम्पचेत् । तत्पीयमानं शमयेत् उदावर्त्तमशेषतः” ॥ * ॥ “चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् । कृनवेधनमागध्यो लवनाणाञ्च साधयेत् ॥ गवां मूत्रेण ता वर्त्तीः कारयेत्तु गुदानुगाः” । वैद्यकरसेन्द्रसारसङ्ग्रहे यच्चिकित्सितं तद्यथा ॥ “त्रिकटुपारदं पथ्याकालकफलं द्विगुणं । थानकुलीनां स्वरसैर्गुडिका कार्य्याम्लरोल्यास्तु ॥ प्रबलजलोदरगुल्मज्वरपाण्डामयनाशिनी । प्रोक्ता तिमिराणिपटलविद्रधिप्रबलोदावर्त्तहरी ॥ क्रिमिकोष्ठगात्रकण्डूपिडकाश्च निहन्ति शूलचयं । शुद्धगुडिका कथिता भुवने श्रीवैद्यनाथाख्या” ॥ इति वैद्यनाथवटिका ॥ * ॥ अत्र अपथ्यानि यथा । “वमनं वेगरोधञ्च शमीधान्यानि कोद्रवम् । नालीतशाकं शालूकं जाम्बवं कर्कटीफलम् ॥ पिण्याकमालुकं सर्व्वं करीरं पिष्टवैकृतम् । विष्टम्भीनि विरुद्धानि कषायाणि गुरूणि च ॥ उदावर्त्ती प्रयत्नेन व्रर्जयेत् सततं नरः । इति वैद्यकपथ्यापथ्यविधिः ।)

"https://sa.wiktionary.org/w/index.php?title=उदावर्त्तः&oldid=118252" इत्यस्माद् प्रतिप्राप्तम्