सामग्री पर जाएँ

उदीर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उदीर्णः, त्रि, (उत् + ऋ + क्त ।) उदारः । महान् । इति जटाधरः ॥ (“न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् । सख्यं भवति मन्दात्मन् ! श्रिया हीनैर्धनच्युतैः” ॥ इति महाभारते ॥ उत्तेजितः । उद्द्वीपितः । उद्धतः । यथा, कुमारे २ । ३२ । “भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः” । “ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह । उदीर्णेदहतः शत्रून् वनानीवाग्निमारुतौ” ॥ इति महाभारते । पुं, विष्णुः । यथा, महा- भारते विष्णुसहस्ननामकथने १३ । १४९ । ८० । “उदीर्णः सर्व्वतश्चक्षुरनीशः शाश्वतः स्थिरः” ॥)

"https://sa.wiktionary.org/w/index.php?title=उदीर्णः&oldid=118300" इत्यस्माद् प्रतिप्राप्तम्