उदुम्बरः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदुम्बरः, पुं, उडम्बरवृक्षः । यज्ञडुमुर इति भाषा । तत्पर्य्यायः । क्षीरवृक्षः २ हेमदुग्धः ३ सदाफलः ४ कालस्कन्धः ५ यज्ञयोग्यः ६ यज्ञीयः ७ सुप्रति- ष्ठितः ८ शीतवल्कः ९ जन्तुफलः १० पुष्पशून्यः ११ पवित्रकः १२ सौम्यः १३ शीतफलः १४ । अस्य पक्वफलगुणाः । सधुरत्वम् । हिमत्वम् । कृमि- कारित्वम् । रक्तपित्ततृष्णामूर्च्छादाहनाशित्वञ्च । अस्य सुपक्वफलगुणाः । अतिशयशीतलत्वम् । मधु- रत्वम् । पित्तश्रमशोषहारित्वञ्च । अस्यामफल- गुणाः । कषायत्वम् । अग्निदीपनत्वम् । रक्त- विकारित्वञ्च ॥ अस्य त्वग्गुणाः । शीतत्वम् । कषायत्वम् । व्रणनाशित्वम् । गर्भिणीगर्भसंरक्षक- त्वम् । स्तनदुग्धदातृत्व ञ्च । इति राजनिर्घण्टः ॥ (अस्य पर्य्यायगुणौ यथा । “उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । उदुम्बरो हिमो रूक्षो गुरुः पित्तकफास्रजित् ॥ मधुरस्तुवरो वर्{??} व्रणशोधनरोपणः” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ म भागे वटादिवर्गे ॥ अस्य फलगुणांश्चाह चरकः सूत्रस्थाने सप्तविंशे- ऽध्याये यथा, -- “अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च ॥ * ॥) कुष्ठविशेषः । देहली । गोवराटेर नीचेर काठ् इति भाषा । पण्डकः । नपुंसकं । इति हेमचन्द्रः ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उदुम्बरः [udumbarḥ], See उडुम्बर. Threshold; विद्रुमोदुम्बरद्वारैर्वै- दूर्यस्तम्भपङ्क्तिभिः Bhāg.9.11.32. ˚मशक = कूपमण्डूक q. v.
