सामग्री पर जाएँ

उद्गाता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्गाता, [ऋ] पुं, (उद्गायति साम यः । उत् + गै + तृच् ।) सामवेदज्ञः । सामवेदविद्ब्राह्मणः इत्यमरः ॥ (“ब्रह्माणं परमं वक्त्रादुद्गातारञ्च सामगम् । होतारमथ चाध्वर्य्युं बाहुभ्यामसृजत्प्रभुः” ॥ इति हरिवंशे । तथा च मनुः । ८ । २०९ । “होता वापि हरेदश्वमुद्गाता चाप्यनःक्रये” ॥ “उद्गातृहोतृब्रह्माणो यथाध्वर्य्युं विनाध्वरे” । इति सुश्रुते सूत्रस्थाने चतुस्त्रिंशेऽध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=उद्गाता&oldid=118336" इत्यस्माद् प्रतिप्राप्तम्