उद्दामः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्दामः, त्रि, (दाम्नः उद्गतः ।) बन्धनरहितः । स्वतन्त्रः । इति मेदिनी ॥ (यथा, रघुः । १ । ७८ ॥ “नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे” ॥ “अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्” । इति रामायणे ॥) महान् । यथा । “उद्दामदन्तुर- विधुन्तुददन्तघातैः” । इति प्रव्रज्या ॥ (“उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि” । इति मेघदूते । २७ ॥ गम्भीरः । यथा भागवते १ मस्कन्धे । “उद्दामभावपिशुनामलवद्ग्रहासु” ॥)
उद्दामः, पुं, (उद्दीप्तं दाम पाशो यस्य । समासे अच् ।) वरुणः । इति मेदिनी ॥ (दण्डकभेदच्छन्दोविशेषः । यथा, वृत्तरत्नाकरे । “यदि नयुगलं ततः सप्तरेफा- स्तदां दण्डवृद्धिप्रयातो भवेद्दण्डकः । प्रतिचरणविवृद्धरेफाः स्युरर्णार्णव- व्यालजीमूतलीलकरोद्दामशङ्खादयः” ॥)
