उद्धारः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्धारः, पुं, (उत् + हृ + घञ् ।) ऋणम् । इत्यमरः ॥ उद्धृतिः । इति मेदिनी ॥ (“निमग्नस्य पुनरुद्धार- एव दुर्लभः” । इति वृहदारण्यकोपनिषत् । मोच- नम् । यथा, शतपथब्राह्मणे १३ । ३ । ४ । २ । “अश्वस्य वयमुद्धारमुद्धरामहै” । मोक्षः । निर्व्वा- णम् ॥ * ॥ उद्ध्रियते साधारणधनात् इत्युद्धारः । यद्वा, साधारणद्रव्यात् यत् गरिष्ठं तदुद्धारः । इति श्रीनाथः । उद्ध्रियते साधारणधनात् निष्कृष्य विशेषनिष्ठतया एव बोध्यते इत्युद्धार- इति अच्युतानन्दः । साधारणत्वेन उद्ध्रियते इति उद्धार इति रघुनन्दनः । उद्ध्रियते साधारणधनात् वहिर्भाव्यते इत्युद्धार इति श्रीकृष्णः । यथाह मनुः ९ । ११२ ॥ “ज्येष्ठस्य विंश उद्धारः सर्व्वद्रव्याच्च यद्वरम् । ततोऽर्द्धं मध्यमस्य स्यात् तुरीयस्तु यवीयसः” ॥ ज्येष्ठस्य विंश उद्धारः उद्ध्रियते इत्युद्धारः ज्येष्ठस्या- विभक्तसाधारणधनात् उद्धृत्य विंशतितमो भाग- इति तट्टीकायां कुल्लूकभट्टः ॥ * ॥ जयानन्तरं श- त्रुभ्यो लब्धं धनादिकम् । यदुक्तं मनुना ७ । ९७ । “राज्ञश्च दद्युरुद्धारमित्येषा तैदिकी श्रुतिः । राज्ञा च सर्व्वयोधेभ्यो दातव्यमपृथक् जितम्” ॥ “उद्धारं योद्धारः राज्ञे दद्युः । उद्ध्रियते इत्युद्धारः जितधनाद्युत् उत्कृष्टधनं सुवर्णरजतभूम्यादि राज्ञे समर्पणीयम्” । इति तट्टीका ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्धारः [uddhārḥ], 1 Drawing out, extraction.
Deliverance, redemption, saving, rescuing, extrication.
Raising, lifting up.
Deduction, a part to be set aside.
(In law) A part to be set aside from the paternal property for the benefit of the eldest son; the surplus allowed by law to the eldest beyond the shares of the younger brothers; ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद्वरम् Ms.9.112.
The sixth part of booty taken in war which belongs to the king; राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः Ms.7.97.
An obligation.
Debt, particularly such as bears no interest.
Recovering property.
Marching out.
Citing (a passage), quoting.
Final beatitude.
Prosperity, elevation.
Compilation.
Leavings of dishes. -रा The plant गुडूची. -रम् A fire-place. -Comp. -कोशः N. of a work.-विभागः Division of shares, partition.
