सामग्री पर जाएँ

उद्बोधक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्बोधक¦ त्रि॰ उद्बोधयति उद् + बुध--णिच्--ण्वुल्।

१ उद्दीपके

२ उद्बोधकारके

३ सूर्य्ये पु॰ उदयेन सर्वेषां प्रबोधकत्वात्तस्यतथात्वम्। उद्बोधकानि च न्यायसूत्रवृत्त्योर्दर्शितानि यथा(
“प्रणिघाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रया-श्रितसम्बन्धानन्तर्य्यवियोगैककार्य्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारामधर्म्माधर्मानमित्तेभ्यः” सू॰(
“स्मरणमित्यनुवर्त्तते निमित्तशब्दस्य द्वन्द्वात्परं श्रुतस्य प्रत्ये-[Page1179-b+ 38] कमभेदेनान्वयः। प्रणिधानं मनसोविषयान्तरसञ्चारवारणम्। निबन्ध एकग्रन्थोपनिबन्धनं यथा प्रमाणेन प्रमेयादिस्मरणम्। अभ्यासः संस्कारबाहुल्यम् एतस्य यद्यपि नोद्बोधकत्वतथापि तादृशे शीघ्रमुद्बोधकसमवधानं स्यादित्याशयेन तदु-पन्यासः। अभ्यासोदृढतरसंस्कारः उद्बोधकत्वेनोक्तैतिकेचित्। लिङ्गं व्याप्यं व्यापकस्य स्मारकम्। लक्षणं यथाकपिध्वजादि अर्जुनादेः। सादृश्यं देहादेः। परिग्रहःस्वीकारस्तस्य स्वस्वामिभावोऽर्थः तदेकतरेणान्यतरस्मरणम्। आश्रयाश्रितौ राजादितत्यरिजनौ परस्परस्मारकौ। सम्ब-न्धोगुरुशिष्यभावादिः गोवृषन्यायात् पृथगुक्तः। आनन्तर्य्यंप्रोक्षणावघातादेः। षियोगोयथा दारादेः। एककार्य्या-अन्तेवासिप्रभृतयः परस्परस्मारकाः। विरोधादहिनकुला-देरन्यतरेणापरस्मरणम्। अतिशयः संस्कारौपनयना-दिराचार्य्यादिस्मारकः। प्राप्तिर्धनादेर्दातारं स्मारयति। व्यवधानमावरणं यथा खड्गादेः कोषादि। सुखदुःखयोर-न्यतरेणापरस्य ताभ्यां तत्प्रयीजकस्य वा स्मरणम्। इच्छा-द्वेषौ यद्विषयकतया गृहीतौ तस्य स्मारकौ। भयं मरणा-देर्भयहेतोर्व्वा स्मारकम्। अर्थित्वं दातुः। शाखादेःक्रिया वाय्वादेः, रागात्प्रींतेः पुत्रादेःस्मरणं, धर्म्माधर्म्माभ्यांजन्मान्तरानुभूतसुखदुःखसाधनयोः प्रागनुभूतसुखादेश्च स्मरणमिति उक्तेषु च किञ्चित्स्वरूपसत्किञ्चिच्च ज्ञातमुद्बो-धकं शिष्यव्युत्पादनाय चायं प्रपञ्चः” वृ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्बोधक¦ mfn. (-कः-का-कं)
1. Discovering, exhibiting.
2. What reminds, or calls to remembrance. E. उत् and बोधक making known.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्बोधक [udbōdhaka], a.

Reminding, that which reminds or calls to remembrance.

Exciting, rousing.

Discovering, exhibiting, showing. -कः N. of the sun.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्बोधक/ उद्-बोधक mfn. exciting , calling forth Sa1h.

उद्बोधक/ उद्-बोधक mfn. reminding

उद्बोधक/ उद्-बोधक mfn. one who reminds or calls to remembrance

उद्बोधक/ उद्-बोधक mfn. discovering , exhibiting W.

"https://sa.wiktionary.org/w/index.php?title=उद्बोधक&oldid=234996" इत्यस्माद् प्रतिप्राप्तम्