उद्भूत
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्भूतः, त्रि, (उद्भवति स्म । उत् + भू + क्त ।) उत्पन्नः । जातः । यथा । ईशानसंहितायाम् । “माघे कृष्णचतुर्द्दश्यामादिदेवो महानिशि । शिवलिङ्गतयीद्भूतः कोटिसूर्य्यसमप्रभः” ॥ इति तिथ्यादितत्त्वम् ॥ (तथा, भाषापरिच्छेदे ५६ । “उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः” ।)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्भूत¦ त्रि॰ उद् + भू--क्त।
१ उत्पन्ने
“शिवलिङ्गतयोद्भूतः कोटि-सूर्य्यसमप्रभः” ति॰ त॰ पु॰
“समुद्रमथनोद्भूतः” कलस-मन्त्रः न्यायमते
२ प्रत्यक्षयीग्ये
“उद्भूतरूपं नयनस्य गो-चरः” उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि च त्वचः” भाषा॰। उद्भूतत्वञ्च उद्भवापरपर्य्यायो रूपादिविशेषगु-णगतोजातिभेदः कणा॰ सूत्रवृत्तौ उक्तः यथा
“अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः” क॰ सू॰।
“तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम्” सू॰।
“रूपगतो-विशेषोरूपविशेषः तच्चोद्भूतमनभिभूतत्वंरूपत्वञ्च तस्माद्रूप-स्योपलब्धिः। नन्वेवं परमाणोर्द्व्यणुकस्य च रूपं गृह्ये-तेत्यत उक्तमनेकद्रव्यसमवायादिति अनेकपदं भूयस्त्वपरंतेनानेकानि भूयांसि द्रव्याणि आश्रयतया यस्य तद-नेकद्रव्यं त्रसरेणुप्रभृति तत्समवायात्, घटादयोऽप्य-वयवद्वयारब्धाः परम्परयाऽनकद्रव्याश्रया एव, रसस्पर्शा-दौ रूपत्वविरहात् चाक्षुषत्वाभावः चाक्षुषे तेजसि चउद्भूतत्वविरहात्,। उद्भवः रूपादिविशेषगुणगतो जाति-विशेष एव रूपत्वादिव्याप्यः। नन्वेवं शुक्लत्वसुरभित्वक-टुत्वादिभिरपि परस्परभावानुपपतिरेव तत्तद्व्याप्यतन्ना-नात्वकल्पने तु कल्पनागौरवम् उद्भवपदस्य नानार्थत्व-ञ्चेति चेन्न वाह्यैकैकेन्द्रियग्रहणयोग्यगुणत्वस्यैपोपाधेरु-द्भवत्वात् तदुपाधिविरहस्यैवानुद्भवत्वात्,। अनुद्भवाभावएव उद्भव इति केचित्। तच्चिन्त्यम् अनुद्धवस्याप्येवं व्य-वस्थापयितुमशक्यत्वात्। अतीन्द्रियविशेषगुणत्वमनुद्भूतत्व-मिति चेत् एवं तर्हि ऐन्द्रियकविशेषगुणत्वस्यैवोद्भवत्वा-पत्तेः। ऐन्द्रियकत्वावच्छेदकं किमिति चेत् तुल्यम्,विशेषगुणेष्वेकैवोद्भूतत्वं जातिः गुणगतजातौ परस्पर-[Page1182-a+ 38] भावानुपपत्तिर्न दोषायेत्यपि वदन्ति। तेनेति रूपप्रत्यक्ष-ज्ञानेनेत्यर्थः यथा रूपविशेषात् रूपत्वानभिभूतत्वोद्भूतत्व-लक्षणात्, रूपोपलब्धिस्तथा रसविशेषात् रसत्वानमि भूतत्वो-द्भूत्वलक्षणात् रसोपलब्धिः एवमितरत्रापि योज्यम्। अ-नेकद्रव्यसमवायश्चातिदेश्यः। घ्राणरसनत्वगिन्द्रियाणामनु-द्भवाद्गन्धरसस्पर्शानामग्रहणम् पाषाणादावनुद्भवाद्गन्धर-सयोः। तद्भस्मनि तयोरुपलम्भात् तयोः पाषाणादावुप-लम्भ एव न तुस्पष्ट इत्येके। विभक्तावयवाप्यद्रव्यरूपानु-द्भवात्तदग्रहणम् एवं रसस्यापि। उष्णजले तेजीरूप-स्यानुद्भवात् स्पर्शस्य चाभिभवात् विततकर्पूरचम्पकादौरूपरसस्पर्शानामनुद्भवादनुपलम्भः। कनकादौ रूपमुद्भूत-मेव शुक्लत्वभास्वरत्वे परमभिभूते। रूपमप्यभिभूतमि-त्येके कनकग्रहणन्तु रूपान्तरसाहचर्य्यात्। अभिभवश्चबलवत्सजातीयग्रहणकृतमग्रहणं न तु बलवत्सजातीयस-म्बन्धमात्रम्, बलवत्सजातीयसम्बन्धस्याप्यग्रहणनिरूप्यतयाअग्रहणस्यैवोपजीव्यत्वात् नचाग्रहणप्रयोजकत्वेन बलवत्स-जातीय एवोपजीव्यः, अग्रहणस्य ग्रहणप्रागभावस्य तद-त्यन्ताभावस्य वा तदप्रयोज्यत्वात् ग्रहणध्वंसस्य च त-त्राभावात्। तवापि तर्हि बलवत्सजातीयग्रहणकृतमग्रहण-मनुपपन्नमेबेति चेत् अस्त्वेवं तथापि सजातीयस्य बल-वत्त्वे दुर्बलत्वे वा तादृशसम्बन्धसत्त्वे वा ग्रहणाग्रहणेएव प्रयोजके एवेति स एवाभिभवपदार्थः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्भूत¦ mfn. (-तः-ता-तं)
1. Born, produced.
2. Lofty, literally or figura- tively.
3. Visible, perceptible, present. E. उत् before भू to be, affix क्त।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्भूत [udbhūta], p. p.
Born, produced, generated.
Lofty (lit. and fig.).
Visible, perceptible, capable of being perceived by the senses; as a गुण. -Comp. -रूपम् Visible form or shape. -स्पर्शवत् a. Tangible; Bhāṣā. P.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्भूत/ उद्-भूत mfn. come forth , produced , born
उद्भूत/ उद्-भूत mfn. grown MaitrUp. MBh. R. Katha1s. etc.
उद्भूत/ उद्-भूत mfn. raised , elevated , increased R. R2itus.
उद्भूत/ उद्-भूत mfn. visible , perceptible , distinct , positive Bha1sha1p.
