सामग्री पर जाएँ

उद्यत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्यत्¦ त्रि॰ उद् + या--शतृ। उद्गच्छति
“उद्यता जयिनिकामिनीमुखे तेन साहसमनुष्ठितं पुनः” का॰ प्र॰
“उद्यन्समुद्रादुत वा पुरीषात्” यजु॰

२९ ,

१२ ।
“नेक्षेतोद्यन्तमादित्यम्” मनुः। स्त्रियां ङीप्। सा च

२ विष्टुतिभेदेच सा च ताण्ड्य॰ ब्रा॰ दर्शिता
“तिसृभ्योहिङ्करोति स प्रथमया, तिसृभ्योहिङ्करोति स म-ध्यमया, तिसृभ्योहिङ्करोति स उत्तमयोद्यती त्रिवृतो वि-ष्टुतिः”।
“एकैकस्य साम्नः पञ्चविभक्तयः प्रस्तावोद्गी-थप्रतिहारोपद्रवनिधनाख्याः, तत्र हिङ्कारस्त्रिभिरुद्गातृभिःसर्व्वत्र कर्त्तव्यः अतएव सूत्रकृतोच्यते
“साम्ने साम्नेहिङ्कुर्युरिति” तिसृभ्य इति
“क्रियार्थोपपदस्य च कर्म्मणिस्थानिनः” पा॰ कर्मणि चतुर्थी तिस्र ऋचो गातुं हिङ्कु-र्यात् एकवचनमतन्त्रम् उक्तादेव हेतोः” अतस्त्रयोऽप्युद्-गातारो हिङ्कुर्युरित्यर्थः। एवमुत्तरत्रापि हिङ्कारवि-धायकेषु वाक्येषु योजना। स हिङ्करोति स हिंकर्त्ताप्रथमया त्रिरुक्तया गायेत् अयं प्रथमः पर्य्या-षः। त्रिसृभ्यो हिङ्करोति स हिङ्कर्त्ता मध्यमयात्रिरुक्तया गायेत् अयं द्वितीयः पर्यायः, पुनरपितिसृभ्यो हिङ्करोति स हिङ्कर्त्ता तृचस्योत्तमाअन्त्या तया त्रिरुक्तया गायेत् एषः तृतीयः पर्य्यायः। अनेन पर्य्यायेण त्रिवृत्स्तोमः सम्पद्यते उक्तप्रकारेणत्रिधा वर्त्तत इति त्रिवृत् स्तोमः तस्य विष्टुतिरेषा उद्यतीऊर्द्ध्वं गच्छन्ती उक्तेवु पर्यायेषु प्रथममध्यमोत्तमक्रमेण ऊर्द्ध्वंगमनादन्वर्थसंज्ञेयमेषा त्रिवृतः प्रथमा विष्टुतिः” मा॰सामसं॰ भाष्ये माधवेनौद्यतीनामकविष्टुतेः प्रकारः स्पष्टंदर्शितो यथा
“पठितानां नवानामृचां गानं त्रिभिः पर्या-यैः कर्त्तव्यम् तत्र प्रथमपर्याये त्रिषु सूक्तेषु आद्यास्तिस्रऋचः, द्वितीये पर्याये मध्यमाः, तृतीये पर्याये चोत्तमाः। तिसृभ्य इति तृतीयार्थे पञ्चमी, हिङ्करोति गायतीत्यर्थः। सेयं यथोक्तप्रकारीपेता गीतिस्त्रिवृत्स्तोमस्य विष्टुतिः(स्तुति--प्रकार--विशेषः), अस्याः विष्टुतेरुद्यती नामेति, भा॰पञ्चदशस्तोमेऽपरा उद्यती विष्टुतिः ता॰ ब्रा॰ दर्शिता यथा[Page1183-a+ 38]
“तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोतिस एकया स तिसृभिस्म एकया, सप्तभ्यो हिङ्करोति स ति-सृभिस्स एकया स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः” ब्रा॰
“त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेत्युद्यती पञ्चदशस्यविष्टुतिरिति। त्रिषु पर्यायेषूत्तरोत्तरसंख्योत्कर्षमेती-त्युद्यतीत्युच्यते” भा॰। सप्तदशस्तोमस्यापराप्युद्यती तत्रैव दर्शिता
“अथोद्यत्याख्यां सप्तदशस्तोमस्यापरां विष्टुतिमाह” भा॰।
“तिसृभ्यो हिङ्करोति स पराचीमिः, पञ्चभ्यो हिङ्करोतिस एकया स तिसभिस्स एकया, नवभ्योहिङ्करोति सतिसृभिस्सतिसृभिस्स तिसृभिरुद्यती सप्तदशस्य विष्टुतिः” ब्रा॰।
“तिसृभ्यः पञ्चभ्यो नवभ्य इति क्रमेण सख्यायाऊर्द्ध्वगमनादुद्यती ऊर्द्ध्वं गच्छन्ती एतत्संज्ञा एषा सप्तदशस्तोमस्य विष्टुतिः” भा॰। अयं संक्षेपः गवामयने त्रिवृदादयः स्तोमाः विहिताः तेषांत्रिवृदादिस्तोमानां तिस्रोविष्टुतयः (सन्निवेशविशेषरूपेणस्तवनानि) तत्र वहिष्पवमानसाधनस्य त्रिवृत्स्तोमस्यतिस्रो विष्टुतयः उद्यती कुलायिनी परिवर्त्तिनी चेतितत्राद्या दर्शिता अन्त्ये तत्तच्छब्दे वक्ष्येते।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्यत् [udyat], a. Rising. m. A star. -Comp. -पर्वतः, -गिरिः The Eastern mountain (उदयगिरि).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्यत्/ उद्-यत् mfn. (fr. उद्-इSee. ) , rising etc.

उद्यत्/ उद्-यत् m. ( अन्)a star Pa1rGr2.

"https://sa.wiktionary.org/w/index.php?title=उद्यत्&oldid=235214" इत्यस्माद् प्रतिप्राप्तम्