उद्यापन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्यापन¦ पुंन॰ उद् + या--णिच्--ल्युट् अर्द्धर्चादि। व्रतादि-समापने ब्रतप्रतिष्ठायाम्। हेमाद्रौ व्रतखण्डं
“उद्यापनं प्रवक्ष्यामि” इत्यसकृत्व्रतभेदे प्रयोगः। प्रति-ष्ठा च कर्म्मान्तरं न तदङ्गमिति” रघु॰। अस्येतिकर्त्त-व्यतासामान्यप्रकारः व्रतततत्त्वादौ अनुसन्धेयः। विशेषतस्तुतत्तद्व्रतोक्तविधायवाक्येभ्योऽवसेयः विस्तरस्तु हेमाद्रौ व्रत-खण्डे दृश्यः। तत्र तिथि॰ त॰ व्रतारम्भप्रतिष्ठयोर्व-र्ज्यकालमाह ज्योतिषे
“गुरोर्भृगोरस्तबाल्ये वार्धकेसिंहके गुरौ। वक्रिजीवाष्टविंशेऽह्नि गुर्वादित्ये दशा-हिके। पूर्वराशावनायातातिचारिगुरुवत्सरे। प्रा-ग्राशिगन्तृजीवस्य चातिचारे त्रिपक्षके। कम्पाद्यद्भुतसप्ताहे नीचस्थेज्ये मलिम्लुचे। भानुलङ्घितके मासिक्षये राहुयुते गुरो। पौषादिकचतुर्मासे चरणाङ्कितवर्षणे। एकेनाह्ना चैकदिने द्वितीयेन दिनत्रये। तृ-तीयेन तु सप्ताहे माङ्ग्यल्यानि शुभान्विताः। विद्या-रम्भकर्णवेधौ चूडोपनयनोद्वहान्। तीर्थस्नानमना-वृत्तं तथानादिसुरेक्षणम्। परीक्षारामयज्ञांश्च पुर-श्चरणदीक्षणे। व्रतारम्भप्रतिष्ठा च गृहारम्भप्रवेशने। प्रतिष्ठारम्भणे देवकूपादेर्वर्जयन्ति च। द्वात्रिंशद्दिवसा-श्चास्ते जीवस्य भार्गवस्य च। द्वासप्ततिर्महत्यस्ते पादास्तेद्वादश क्रमात्। अस्तात् प्राक् परयोः पक्षं गुरोर्व्वार्द्धक-वालते। पक्षं वृद्धोमहास्तेतु भृगुर्बालोदशाहिकः। पादास्ते तु दशाहानि वृद्धःशुक्रो दिनत्रयम्”। एवं व्रता-रम्भप्रतिष्ठयोर्वज्ज्यकालोक्तेः सिंहस्थरवौ तदकर्त्तव्यता-कल्पनं साहसमेव हरितालिकादिव्रते तद्वर्जनस्यासम्भवात्तस्य सिंहस्थरविकत्वेनैव निमित्तत्वात् तच्च हरिता-लिकाशब्दे वक्ष्यते। सिंहस्थरविककालस्याशुद्धिबोधकवाक्यस्य व्रतारम्भप्रतिष्ठाव्यतिरिक्तविषयकत्येनाप्युपत्तेः।
“पूर्णे काले व्रतानां तु प्रतिष्ठां विधिवच्चरेत्। न तत्रकालनियमस्तत्र विघ्ने पराविदके इति” वचनात् पूर्ण्णकालेन समयाशुद्धिर्बाधिकेति केचित्। एतद्वचनस्यामूलकत्व-माहुरन्ये।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्यापनम् [udyāpanam], Bringing to a conclusion, completing, finishing (as व्रतोद्यापन).
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्यापन/ उद्-यापन n. the act of bringing to a conclusion , finishing , accomplishment.
