सामग्री पर जाएँ

उद्वर्त्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्वर्त्तनम्, क्ली, (उत् + वृत् + णिच् + भावे करणे वा ल्युट् ।) उत्पतनम् । (यथा, मेघदूते ४२ । मोघीकर्त्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि” ।) विलेपनम् । घर्षणम् । इति मेदिनी ॥ (यथा, मनुः ४ । १३२ । “उद्वर्त्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठूतवान्तानि नाधितिष्ठेत्तु कामतः” ॥) शरीरनिर्म्मलीकरणगन्धद्रव्यादि । तत्पर्य्यायः । उत्सादनम् २ । इत्यमरः ॥ हरिद्रा सेवन आवटन इत्यादि भाषा । सामान्योद्वर्त्तनगुणाः । कफवा- युमेदोवातरोगनाशित्वम् । अङ्गस्थैर्य्य-चर्म्मनिर्म्मल- कारित्वञ्च ॥ हरिद्राद्युद्वर्त्तनगुणाः । कण्डूवैवर्ण्य- रूक्षताहारित्वम् ॥ तिलोद्वर्त्तनगुणाः । कण्डूरूक्ष- तात्वग्दोषनाशित्वम् । इति राजवल्लभः ॥ (“उद्वर्त्तनं वातहरं कफमेदोविलापनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ॥ शिरासुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥ इति चिकित्सितस्थाने २४ । अध्याये सुश्रुते- नोक्तम् ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्वर्त्तन¦ न॰ उद्वर्त्त्यतेऽनेन उद् + वृत--णिच् करणे--ल्युट्। [Page1185-a+ 38]

१ शरीरनिर्मलीकरणद्रव्यादौ। चूर्णैरुद्वर्त्तनैः पालीं तैला-क्तामवचूर्ण्णयेत्” सुश्रु॰।
“नाक्रमेद्रक्तविण्मूत्रष्ठीवनोद्व-र्त्तनादि च” या॰ स्मृतिः। भावे ल्युट्।

२ द्रव्यभेदैः स्नेहा-द्यपहारार्थेव्यापारे च।
“उद्वर्त्तनं वातहरं कफमेदो-विनाशनम्। स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम्”
“यवाश्वगन्धायष्ट्याह्वैस्तिलैश्चोद्वर्त्तनं हितम्। शतावर्य्यश्वगन्धाभ्यां पयस्यैरण्डजीवनैः”
“ततोऽस्य बलातैलमभ्य-ङ्गार्थेऽवचार्य्यम् यवपिष्टमुद्वर्त्तनार्थे” सुश्रु॰।

३ विलेपने,

४ घर्षणे च। उद् + वृत--ल्युट्।

५ उत्पतने

६ उल्लुण्ठनेच
“गात्रस्योर्त्तनञ्चैव हितं संवाहनानि च” सुश्रु॰
“चटुलशफरोद्वर्त्तनप्रेक्षितानि” मेघ॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्वर्त्तन¦ n. (-नं)
1. Going up, rising, ascending.
2. Grinding, pounding.
3. Bubbing or kneading the body.
4. Rubbing and cleaning it with fragrant unguents.
5. Lenguents. used for that purpose, or to relieve pains in the limbs, &c.
6. Rising, (figuratively) prosperity, elevation.
7. Misbehaving.
8. Springing up of plants or grain, &c.
9. Drawing out metal, laminating, wire drawing, &c. E. उद् up, and वर्त्तन abiding, &c.

"https://sa.wiktionary.org/w/index.php?title=उद्वर्त्तन&oldid=235560" इत्यस्माद् प्रतिप्राप्तम्