उद्वर्त्तनम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्वर्त्तनम्, क्ली, (उत् + वृत् + णिच् + भावे करणे वा ल्युट् ।) उत्पतनम् । (यथा, मेघदूते ४२ । मोघीकर्त्तुं चटुलशफरोद्वर्त्तनप्रेक्षितानि” ।) विलेपनम् । घर्षणम् । इति मेदिनी ॥ (यथा, मनुः ४ । १३२ । “उद्वर्त्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठूतवान्तानि नाधितिष्ठेत्तु कामतः” ॥) शरीरनिर्म्मलीकरणगन्धद्रव्यादि । तत्पर्य्यायः । उत्सादनम् २ । इत्यमरः ॥ हरिद्रा सेवन आवटन इत्यादि भाषा । सामान्योद्वर्त्तनगुणाः । कफवा- युमेदोवातरोगनाशित्वम् । अङ्गस्थैर्य्य-चर्म्मनिर्म्मल- कारित्वञ्च ॥ हरिद्राद्युद्वर्त्तनगुणाः । कण्डूवैवर्ण्य- रूक्षताहारित्वम् ॥ तिलोद्वर्त्तनगुणाः । कण्डूरूक्ष- तात्वग्दोषनाशित्वम् । इति राजवल्लभः ॥ (“उद्वर्त्तनं वातहरं कफमेदोविलापनम् । स्थिरीकरणमङ्गानां त्वक्प्रसादकरं परम् ॥ शिरासुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥ इति चिकित्सितस्थाने २४ । अध्याये सुश्रुते- नोक्तम् ॥)
