सामग्री पर जाएँ

उद्वहः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्वहः, पुं, (उदूर्द्ध्वं वहति प्रापयतीति । उत् + वह + अच् ।) पुत्रः । इति हेमचन्द्रः ॥ (यथा, -- रघुः । ९ । ९ । (“उदयमस्तमयञ्च रघूद्वहात्” ॥) सप्तवाष्वन्तर्गतवायुविशेषः । स तु प्रवहवायोरूर्द्ध्व- स्थितः । इति सिद्धान्तशिरोमणिः ॥ (“आवहः प्रवहश्चैव विवहश्च समीरणः । परावहः संवहश्च उद्वहश्च महाबलः ॥ तथा परिवहः श्रीमानुत्पातभयशंसिनः । इत्येते क्षुभिताः सप्त मारुता गगनेचराः” ॥ इति हरिवंशे । २३६ अध्याये । विवाहः ॥)

"https://sa.wiktionary.org/w/index.php?title=उद्वहः&oldid=118678" इत्यस्माद् प्रतिप्राप्तम्