उद्वाहः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्वाहः, पुं, (उत् + वह + घञ् ।) विवाहः । इत्यमरः । तस्य लक्षणं भार्य्यात्वसम्पादकग्रहणम् । तस्य स्वी- काररूपज्ञानविशेषस्य समवायविषयतयोर्भेदात् वरकन्ययोर्विवाहकर्तृत्वकर्म्मत्वे । स तु अष्ट- विधः । वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते स ब्राह्मः १ । यत्र यज्ञस्थायर्त्विजे कन्या- दानं स दैवः २ । यत्र वरात् गोद्वयं गृहीत्वा तेनैव सह कन्यादानं स आर्षः ३ । यत्र अनया सह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानं स कायः ४ । यत्र धनं गृहीत्वा कन्यादानं स आसुरः ५ । यत्र कन्यावरयोरन्योन्यानुरागात् त्वं मे भार्य्या त्वं मे पतिरिति निश्चयः स गान्धर्व्वः ६ । यत्र बलात्कारेण कन्याहरणं स राक्षसः ७ । यत्र सुप्तायां मत्तायां प्रमत्तायां वा कन्यायां निर्जने गमनं स पैशाचः ८ । तस्य निर्णयः । सगोत्रामनवरवयस्कां समानप्रवरां पित्रपेक्ष- योर्द्ध्वतनषण्णां पुरुषाणां पुत्रकन्यासन्ततिपरम्प- रया प्रत्येकसप्तमीपर्य्यन्तां अधस्तने तदपेक्षया सप्तमीपर्य्यन्तां पितृबन्ध्वपेक्षयोर्द्ध्वतनषण्णां प्रत्येका- पेक्षया सप्तमोपर्य्यन्तां अधस्तने तदपेक्षया सप्तमी पर्य्यन्तां मातामहसमानोदकां मातामहापेक्ष- योर्द्ध्वतनचतुर्णां पुरुषाणां पुत्त्रकन्यासन्तति- परम्परया प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने तदपेक्षया पञ्चमीपर्य्यन्तां मातृबग्ध्वपेक्षयोर्द्ध्वतन- चतुर्णां प्रत्येकापेक्षया पञ्चमीपर्य्यन्तां अधस्तने त- दपेक्षया पञ्चमीपर्य्यन्ताञ्च कन्यां परित्यज्य उद्वाहः कर्त्तव्यः ॥ पितृबन्धुमातृबन्धुविरहेऽपि तयोर्योग्य- तामवलम्ब्य सप्तमीपर्य्यन्तायाः पञ्चमीपर्य्यन्तायाश्च कन्यायाः परिहारः । वर्ज्जनीयानां कन्यानां मध्येऽपि या त्रिगोत्रान्तरिता सा विवाह्या अत्र सप्तमगणनप्रतियोगिपितृपितृबन्धुपञ्चमगणनप्र- तियोगिमातामहमातृबन्धुगोत्रमादायैव त्रिगोत्र- गणनम् । शूद्रस्य सगोत्राविवाहे दोषाभावः । मातृसपत्नीभ्रातृकन्यां तद्दौहित्रीं अध्यापयितृ- कन्यां शिष्यकन्यां ब्रह्मदगुरुकन्याञ्च परित्यज्य विवाहः कर्त्तव्यः ॥ अथ कन्यादानाधिकारिणः । आदौ पिता । तदभावे पितामहः । तदभावेभ्राता । तदभावे पितृज्ञातिः । तदभावे मातामहः । तद- भावे मातुलः । तदभावे माता । तदभावे माता- महज्ञातिः । एतेषामप्यभावे कन्या स्वयं वरं कुर्य्यात् ॥ अथ विवाहपूर्ब्बकर्त्तव्यकर्म्म । अवश्यं- भावि शुभाशुभग्रहादिदोषशान्त्यर्थं होमो हि- रण्यगोवस्त्रदानम् । ततो नान्दीश्राद्धम् । लग्न- समये वरे उपस्थिते स्वस्तिवाचनादिकं विधाय वरणम् । स्त्य्राचारादि । ततः कन्यादानं यथाशक्ति धनदानञ्च । ततः स्वगृह्योक्तविधिनाग्निं संस्थाप्य कुशण्डिकां समाप्य पाणिग्रहणं सप्तपदीगमनञ्च कर्त्तव्यम् ॥ * ॥ ज्येष्ठेऽकृतविवाहे विवाहकर्त्ता कनिष्ठः परिवेदनदोषविशिष्टो भवति । ज्येष्ठः परिविन्नः । सा कन्या परिवेदनीया । कन्यादाता परिदायी । तत्पुरोहितः परिकर्त्ता । ते सर्व्वे पतिताः । किन्तु देशान्तरस्थक्लीवैकाण्डवैमात्रेय- वेश्यासक्तशूद्रतुल्यातिरोगिजडमूकान्धवधिरकु- ब्जवामनकुण्ठातिवृद्धनैष्ठिकब्रह्मचारिवानप्रस्थभि- क्षुकृषिसक्तनृपसक्तधनवृद्धिप्रसक्तकामकारिदत्त- कोन्मत्तचौरेषु ज्येष्ठेष्वनूढेष्वपि कनिष्ठविवाहे न दोषः । एवं विकृतरूपानूढा ज्येष्ठा कनिष्ठायाः सोदराया ऊढायाः परिवेदनाय न भवति । इत्यु- द्वाहतत्त्वम् ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्वाहः [udvāhḥ], 1 Bearing up, supporting.
Marriage, wedding; असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि Ms.3.43. उद्वाहस्नानवेलां कथयति भवतः सिद्धये सिद्धलोकः Nāg.2.13. (The Smṛitis mention 8 forms of marriage: ब्राह्मो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमः स्मृतः ॥ -Comp. -ऋक्षम् A Nakṣatra auspicious for a marriage. उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः Bhāg.1.53. 4. -तत्त्वम् N. of a work of Raghunandana on marriage ceremonies.
