उद्विग्नः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उद्विग्नः, त्रि, (उत् + विज + क्त । ओदितश्चेति तस्य नः । श्वीदित इति नेट् ।) उद्वेगयुक्तः । यथा, -- “तैर्वृक्नरुग्नसंभुग्नक्षुण्णभिन्नविपन्नकैः । निमग्नोद्विग्नसंह्रीणैः पप्रे दीनैश्च मेदिनी” ॥ इति भट्टिकाव्ये ४ । ४२ ॥ (तथा च भारते, -- “नोद्विग्नश्चरते धर्म्मं नोद्विग्नश्चरते क्रियाम्” ॥)
