सामग्री पर जाएँ

उद्वेगः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उद्वेगः, पुं, (उत् + विज् + भावे घञ् ।) उद्वेजनम् । तत्पर्य्यायः । उद्भ्रमः २ । इत्यमरः ॥ चमत्कारः । इति भरतः ॥ विरहजन्यदुःखम् । इति रसमञ्जरी ॥ भयं । इति हेमचन्द्रः । उद्वाहुलकम् । उद्गमनम् । इति मेदिनी ॥ (“नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छाम् । शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या” ॥ इति मेघटूते पूर्ब्बमेधे ३७ श्लोकः ॥ “सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति” । रघुः ८ । ७ । “संक्षोभेष्वप्यनुद्वेगो माधुर्य्यं परिकीर्त्तितम्” । इति साहित्यदर्पणे ॥ ३ य परिच्छेदः ॥)

उद्वेगः, त्रि, (उद्गतो वेगो यस्मात् ।) स्तिमितः । शीघ्रगामी । ऊर्द्ध्वबाहुः । इति हेमचन्द्रः ॥

"https://sa.wiktionary.org/w/index.php?title=उद्वेगः&oldid=118740" इत्यस्माद् प्रतिप्राप्तम्