उन्दुर
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्दुरः, पुं, (उन्द + उर ।) मूषिकः । इति भरतो द्विरूपकोषश्च ॥ इदु~र इति भाषा ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्दुर पुं।
मूषकः
समानार्थक:अधोगन्तृ,खनक,वृक,पुन्ध्वज,उन्दुर,उन्दुरु,मूषक,आखु,वृष
2।5।12।1।5
उन्दुरुर्मूषकोऽप्याखुर्गिरिका बालमूषिका। सरटः कृकलासः स्यान्मुसली गृहगोधिका॥
: स्वल्पमूषकजातिः
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्दुर(रु)¦ पु॰ उन्द--उर--उरुवा। मूषिके मूषिक-भेदास्तद्दंशोपद्रवाश्च सचिकित्साः सुश्रु॰ दर्शिता यथा।
“अथाती मूषिककल्पं व्याख्यास्यामः। पूर्वमुक्ताः शुक्रविषा मूषिका ये समासतः। नामणक्षणभैवज्यैरष्टादशनिबोध तान्। लालनः पुत्त्रकः कृष्णो हिंसिरश्चिक्विर-स्तथा। छुछुन्दरोऽलसश्चैव कषायदशलोऽपि च। कुलि-ङ्गश्चाजितश्चैव चपलः कपिलस्तथा। कोकिलोऽरुणसंज्ञश्चमहाकृष्णस्तथोन्दुरः। श्वेतेन महता सार्द्ध्वंकपिलेनाखुनातथा। मूषिकश्च कपोतामस्तथैवाष्ठादश स्मृताः। शुक्रंपतति यत्रैषां शुक्रघृष्टैः स्पृशन्ति वा। नस्कदन्तादिभि-स्तस्मिन् गात्रे रक्तं प्रदुष्यति। जायन्ते ग्रन्ययः शेफाकर्णिका मण्डलानि च। पिडकोपचयश्चोग्रा विसर्पाःकिटिभानि च। पूर्व्वभेदोरुजस्तीव्रा ज्वरोमूर्च्छा च दारु-णा। दौर्व्वल्यमरुचिः श्वासो वमथुर्लोमहर्षणम्। दष्ट-रूपं समासोक्तमेतच्च व्यासतः शृणु। लालास्रावोलालनेन हिक्काच्छर्दिश्च जायते। तण्डुलीयककल्कन्तुलिह्यात्तत्र समाक्षिकम्। पुत्त्रकेणाङ्गसादश्च पाण्डुवर्णश्चजायते। चीयते ग्रन्थिभिश्चाङ्गमाखुशावकसन्निभैः। शिरीषेङ्गुदकल्कन्तु लिह्यात्तत्र समाक्षिकम्। कृष्णेनासृक् छर्दयति दुर्दिनेषु विशेषतः। शिरीषफलकुष्ठन्तुपिवेत् किंशुकभस्मना। हिंसिरेणान्नविद्वेषो जृम्भालोमाञ्चहर्षणम्। पिवेदारग्बधादिन्तु सुवान्तस्तत्र भान-वः। चिक्विरेण शिरीदुःखं शोफो हिक्का वमी तथा। जाणिनीमदनाङ्कोठकषायैर्वामयेत्तु तम्। छुच्छुन्दरेण तृट्-छर्दिज्यरोऽलावण्यमेव च। ग्रीवास्तम्भः पृष्ठशोको गन्धा-ऽज्ञानं विसूचिका। चव्यं हरीतकीं शुण्ठीं बिडङ्गं पि-पूपलीं मधु। यवनालर्षभक्षारं वृहत्याश्चात्र दापयेत्। ग्रीवाऽ-[Page1188-b+ 38] स्तम्भोऽलसेनोर्द्ध्ववायुर्दंशे रुजा ज्वरः। महागदं ससर्पिष्कंलिह्यात्तत्र समाक्षिकम्। निद्रा कषायदन्तेन हृच्छोषःकार्श्यमेव च। क्षौद्रोपेताः शिरीषस्य लिह्यात् सार-फलत्वचः। कुलिङ्गेन रुजः शोफो राज्यश्च दंशम-ण्डले। सहे ससिन्धुवारे च लिह्यात्तत्र समाक्षिके। अजितेन वमी मूर्च्छा हृद्ग्रहः कृष्णनेत्रता। तत्र स्नु-हीक्षीरपिष्टां कालिन्दीं मधुना लिहेत्। चपलेन भवे-च्छर्दिर्मूर्च्छा च सह तृष्णया। सभद्रकाष्ठां सजटां क्षौ-द्रेण त्रिफलां लिहेत्। कपिलेन व्रणे कोथो ज्वरोग्रन्व्युद्गमस्तथा। क्षौद्रेण लिह्यात्त्रिफलां श्वेतां-चापि पुनर्णवाम्। ग्रन्थयः कोकिलेनोग्रो ज्वरो दाहश्चदारुणः। वर्षाभूनीलिनीक्वाथसिद्धं तत्र घृतं पिबेत्। अरुणेनानिलः क्रुद्धो वातजान् कुरुते गदान्। महा-कृष्णेन पित्तञ्च श्वेतेन कफ एव च। महता कपिलेनासृक् कपोतेन चतुष्टयम्। भवन्ति चैषां दंशेषु ग्रन्थि-मण्डलकर्णिकाः। पिडकोपचयाश्चोग्राः शोफश्च भृश-दारुणः”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्दुर¦ m. (-रः) A rat: see the next.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्दुर m. a rat , mouse Sus3r.