सामग्री पर जाएँ

उन्नतकाल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्नतकाल¦ पु॰ सि॰ शि॰ उक्ते छायातः कालज्ञानसाधनेप्रक्रियाभेदे
“पलश्रुतिघ्नस्त्रिगुणस्य वर्गोद्युज्येष्टकर्णाहति-हृद्भवेद्वां। इष्टान्त्यका तद्रहितान्त्यका या भवन्ति याउत्क्रमचापलिप्ताः। नतासवस्ते स्युरहर्दलं तैरूनीकृतंचोन्नतकाल एवम्” शि॰।
“त्रिज्यावर्गः पलकर्णेन गुण्यःद्युज्यया इष्टकर्णस्य च घातेन भाज्यः यत्फलं लभ्यतेसेष्टान्त्यका। तयेष्टान्त्यया रहितया अन्त्याया यच्छेषं त-स्योत्क्रमेण धनुः कार्य्यं तस्य धनुषोयावत्यः कलास्ताव-न्तस्तस्मिन् कालेन नतासवोज्ञेयाः तैर्नतामुभिरूनीकृता-[Page1189-b+ 38] दिनदलासव उन्नतासवः स्युः। प्रकारान्तरेण त्रेरा-शिकत्रयेणोपपत्तिः। यदोष्टच्छायाकर्णेन द्वादशाङ्गुलशङ्क-र्लभ्यते तदा त्रिज्याकर्णेन क इति। अत्र त्रिज्याया द्वा-दश गुण इष्टकर्णो हरः। फलं महाशङ्कुः। अथ तस्यहृतिकरणार्थमनुपातः। यदि द्वादशाङ्गुशङ्कोर्विषुवत्कर्णःकर्णस्तदास्य महाशङ्कोः क इति। पूर्वं त्रिज्याया द्वादशगुण इद्रानीं हरः। अतस्तुल्यत्वाद्वादशाङ्कयोर्गुणहरयो-र्नाशे कृते सति त्रिज्यायाः पलकर्णो गुण इष्टच्छायाकर्णोहरः फलमिष्टहृतिः। अथेष्टान्त्याकरणायानुपातः। यदिद्युज्यया त्रिज्या लभ्यते तदिष्टहृत्या किमिति। इदानींत्रिज्या गुणो द्युज्या हरः। हरयोर्घातो हर इतिदुज्येष्टकर्णाहतिर्भवति। गुणयोर्घाते त्रिज्यावर्गः पल-कर्णगुणितो भवति। एवं फलमिष्टान्त्यका। तया वजि-ताया अन्त्याया यदवशेषं सा नतम्योत्क्रमज्या शरसंज्ञा। अतस्तस्या धनुरुत्क्रमेण स नतकालः स्यात्। नतकालोदिनार्धात् पतित उन्नतकालः स्यादित्युपपन्नम्” प्रमि॰

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्नतकाल/ उन्-नत--काल m. a method of determining the time from the shadow SiddhS3ir.

"https://sa.wiktionary.org/w/index.php?title=उन्नतकाल&oldid=236026" इत्यस्माद् प्रतिप्राप्तम्