सामग्री पर जाएँ

उन्मण्डल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्मण्डल¦ न॰ उल्लग्नं मण्डलम्। सि॰ शि॰ उक्ते दिनरात्र्योः क्षयवृद्धिसाधने मण्डलभेदे। ययाह तत्रैव। [Page1191-a+ 38]
“पूर्बापरक्षितिजसंगभयोर्विलग्नं याम्ये ध्रुवे पललवैःक्षितिजादधःस्थे। सौम्ये कुजादुपरि चाक्षलवैर्ध्रुवे त-दुन्मण्डलं दिननिशोः क्षयवृद्धिकारि” शि॰।
“समवृत्त-क्षितिजयोर्यौ पूर्व्वापरौ संपातौ तयोर्ध्रुवचिह्नयोश्च सक्तंयन्निबध्यते तदुन्मण्डलसंज्ञम्। दिनरात्र्योर्वृद्धिक्षयौ तद्व-शेन भवतः” प्रमि॰। सूर्य्यसिद्धान्ते रङ्गनायेन च स्पष्टमुक्तं यथा
“प्राक्पश्चिमाश्रिता रेखा प्रोच्यते सममण्डलम्। उन्म-ण्डलं च विषुवन्मण्डलं परिकीर्त्यते” सू॰।
“प्राक्पश्चि-माश्रिता पूर्व्वपश्चिमसम्बद्धा साधिता रेखा समवृत्तमुच्यते। सैव रेखोन्मण्डलं विषुवन्मण्डलम्। चः समुच्चये। उभय-संज्ञकं कथ्यते। अत्रोपपत्तिः। क्षितिजपूर्बापरवृत्तसं-योगौ पूर्वापरे तत्सूत्रं पूर्वापरसूत्रमिति। पूर्वापर-वृत्तस्य भूमावूर्ध्वाधरानुकारिवृत्तत्वेनादर्शनाद्रेखाकारतयैवदर्शनाच्च पूर्वापरवृत्तनपि तत्सूत्रम्। पूर्वापरवृत्तस्य सममण्डलत्वेनाभिधानात् तद्रेखा सममण्डलसञ्ज्ञोक्ता। अथस्वनिरक्षदेशक्षितिजवृत्तस्योन्मण्डलाख्यस्य तत्संयोगयोःसंलग्नत्वात् तन्मध्यसूत्रत्वेन पूर्वापरसूत्रस्यापि सत्त्वात्पूर्वापरसूत्रमुन्मण्डलसञ्ज्ञम्। एतेनान्यदेशक्षितिजसञ्ज्ञयास्वदेशक्षितिजसञ्ज्ञा सुतरां सिद्धेति पूर्वापरसूत्रस्यक्षितिजवृत्तसञ्ज्ञा द्योतिता। पूर्वापरस्थानयोः क्षितज-वृत्तस्य संलग्नत्वादुल्लिखितवृत्तस्य क्षितिजानुकारित्वाच्च” रङ्ग॰।
“उद्वृत्तादयोऽप्यत्र। परोऽथ वोद्वृत्तगते रवौश्रुतिः” सि॰ शि॰। प्रा॰ स॰।

२ ऊर्द्ध्वमण्डले त्रि॰।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्मण्डलम् [unmaṇḍalam], An imaginery circle going from South to North and meant for measuring the day; the east and west circle; Sūrya.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

उन्मण्डल/ उन्-मण्डल ( उद्-म) n. (in astron. ) the east and west hour circle or six o'clock line Su1ryas. etc.

"https://sa.wiktionary.org/w/index.php?title=उन्मण्डल&oldid=236241" इत्यस्माद् प्रतिप्राप्तम्