उन्मत्तः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्मत्तः, त्रि, (उत् + मद् + क्त ।) उन्मादयुक्तः । वायुकृतचित्तविभ्रमविशिष्टः । पागल इति भाषा । तत्पर्य्यायः । उन्मादवान् २ । इत्यमरः ॥ तस्यौ- षधम्, यथा, -- गारुडे १९९ अध्यायः ॥ * ॥ “कूर्म्ममत्स्याखुमहिषगोशृगालाश्च वानराः । विडालवर्हिकाकाश्च वराहोलूककुक्कुटाः ॥ हंस एषाञ्च विण्मूत्रं मांसं वा रोमशोणितम् । धूमं दद्याज्ज्वरार्त्तस्य उन्मत्तेभ्यश्च शान्तये ॥ एतान्यौषधजातानि धूपितानि महेश्वर । निहन्ति ज्वरमुन्मादं वृक्षमिन्द्राशनिर्यथा” ॥ (“तमात्मनो हतमुपघ्नन्तो देवादयः कुर्व्वन्त्यु- न्मत्तम्” । इति निदानस्थाने सप्तमेऽध्याये । “देवर्षिपितृगन्धर्व्वैरुन्मत्तस्य च बुद्धिमान् । वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरकर्म्म च ॥ सर्पिष्पानादि तस्येह मृदुभैषज्यमाचरेत्” ॥ इति च चिकित्सास्थाने १४ अध्याये चरकेणोक्तम् ॥ अन्यद्विवरणमस्योन्मादशब्दे ज्ञेयम् ॥) तद्वाक्यप्रामाण्यं यथा, -- मलमासतत्त्वे ॥ “उन्मत्तानाञ्च या गाथा शिशूनां चेष्टितं च यत् । स्त्रियो यच्च प्रभाषन्ते नास्ति तत्र व्यतिक्रमः ॥ आदौ गच्छति देवेषु पश्चात् गच्छति मानुषान् । नादेशिता वाग्वदति सत्या ह्येषा सरस्वती” ॥
उन्मत्तः, पुं, (उन्मत्तयति । उन्मत्त + तत्करोतीति णिच् + पचाद्यच् ।) धुस्तूरः । यथा, -- (“श्वेतोन्मत्तस्योत्तरदिङ्मूलसिद्धस्तु पायसः । गुडाज्यसंयुतो हन्ति सर्व्वोन्मादांश्च दोषजान्” ॥ इति तैद्यकचक्रपाणिसंग्रहे उन्मादाधिकारे ॥) मुचुकुन्दवृक्षः । इति मेदिनी ॥
