उन्माथः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
उन्माथः, पुं, (उन्मथ्यतेऽनेनेति । उत् + मथ + घञ् । मारणादिपक्षे भावे घञ् ।) कूटयन्त्रम् । मृग- बधोपयुक्तयन्त्रम् । आमिषं दत्त्वा मृगपक्षिबन्ध- नार्थं यत् सन्धानयन्त्रं निवेश्यते सः । इत्यमरः ॥ मारणम् । घातकः । इति मेदिनी ॥ (यथा, प्रबोधचन्द्रोदये । “प्रभो मद्वाणानां क इव भुवनोन्माथविधिषु” ॥)
